________________ 164 सटीकाद्वैतदीपिकायाम् संविदात्मनोरभेदप्रतिपादनम् एवं मन्तृत्वादिविषया श्रुतिरपि द्रष्टव्या। तस्माद्देवदत्ताहमनुभवगोचरो देवदत्ताहमनुभवे प्रकाशमानस्वव्यतिरिक्तद्रष्ट्टकः, दृश्यत्वादित्यनुमानाल्लाघवानुभवाभ्यां सहकृतात्संविदात्मनोरभेद इति / किञ्च योऽयमहङ्कारादिसाक्ष्यनुभवः स आत्मनो न भिद्यते / संवेदनत्वात् / व्यतिरेकेण घटवत् / नचाप्रयोजकता। आत्मधर्मनित्यज्ञानाभावनोत्पादविनाशशीलस्य ज्ञानस्यात्मगुणत्वे आत्मनः कूटस्थताहानेः। __ स्यादेतत् आत्मन उत्पत्तिविनाशानङ्गीकारान्न कूटस्थता हानिः। नान्योत्पत्तिविनाशाभ्यामन्यस्य कौटस्थ्यं हीयते। अविद्यानिवृत्या त्वदभिमतात्मनोऽपि तत्प्रसङ्गादिति / भवेदेवं यदि कार्यसत्वं कारणाद्भिद्येत / जायमानं हि कार्य प्रागपि सदिति वक्तव्यम् / असत उत्पत्यनुपपत्तेः। शशशृङ्गवत् / ननु न नरशृङ्गतुल्यं कार्य, अपि तु कारणे कार्यस्य प्रागभाव इति चेत् अस्तु वस्तुतस्तु अत्र प्रमेयादित्रितयसाक्षी यः स आत्मेति श्रुत्यर्थः / प्रकाशरूपेऽपि तस्मिन् वृत्तिकृतभेदेन प्रकाशवत्वसम्भवाद्वेदेति न विरुध्यते / परमते एव वेद्यस्य घ्रातुर्वेत्तत्वमनुपपन्नम् / कर्तुः कर्मत्वविरोधादिति भावः / तर्कितेऽर्थेऽनुमानमाह -तस्मादिति / यज्ञादत्तात्मघटयोः सिद्धसाधनतानिवृत्तये देवदत्ताहमिति विशेषणद्वयम् / यज्ञदत्ताहमनुभवे देवदत्तपरोक्षानुभवयोः प्रकाशमानयज्ञदत्तात्मद्रष्टकत्वेनार्थान्तरतानिवृत्तये साध्येऽपि तद्विशेषणद्वयम / लाघवानुभवाभ्यामिति / संविदात्मनोरभेदे लाघवान्ममात्मेति प्रमातृभिन्नात्मनोऽनुभवात्तस्यापि दर्शनाश्रयत्वे स्वव्यतिरिक्तद्रष्टकत्वापातेनानवस्थाप्रसङ्गाच्चेत्यर्थः / नित्यानुभवस्य साक्षादेवात्मत्वं साधयति-किं चेति / तस्यात्मभेदे ज्ञानगुणकस्यैवात्मत्वं वक्तव्यम् / तथा चात्मनो निर्विकारत्वानुपपत्तिरित्याहन चेति / गुणगुणिनोभैंदान्न गुणोत्पत्त्यादिना गुणिन आत्मनः उत्पत्त्यादिप्रसङ्ग इति चोदयतिस्यादेतदिति / कार्यकारणयो)दस्य दुर्निरूपत्वात्प्रपञ्चसत्यत्ववादिना तयोरभेद एव वाच्यः / तथा च कार्यविकारेण कारणमेव विकारवत् स्यादित्यभिप्रत्याहभवेदेवमिति / कार्यस्य कारणभेदं निषेद्ध तस्योत्पत्तेः प्रागसत्त्वं निषेधयतिजायमानं हीति / उत्पत्तेः प्राक्सत्वाभावेऽप्यत्यन्तासत्त्वमपि नास्तीति शङ्कते-ननु