________________ प्रथमः परिच्छेदः 163 बाधितत्वेन जानतस्तदभावात्। अतएव पारमेश्वरज्ञानस्यायथार्थत्वे तन्मूलवैदिकव्यवहारः सर्वोऽपि विप्लवेतेति परास्तम् / तस्याविद्याकाले विद्यमानार्थत्वेन तन्मूलव्यवहारस्य विद्यमानार्थत्वात्। यदप्युक्तम्, अज्ञानाविरोधिनो न ज्ञानत्वं तद्विरोधेऽज्ञानं नित्यनिवृत्तं स्यादिति / तन्न / वृत्तिसहकृतसाक्षिणोऽज्ञानविरोधित्वमुक्तं न प्रस्मर्तव्यम् / यचान्यदपरोक्षज्ञानस्यैवात्मत्वे न हेतुरिति / तदसत् / वृत्तिमात्रस्यानात्मत्वात् प्रकाशमात्रस्यात्मत्वाच / यत्त्वज्ञानाश्रयस्यैवात्मनः सुखादिज्ञानाश्रयत्वानुभवादित्यादि / तदस्माकं न प्रतिकूलम् / अज्ञानाश्रयस्यैव साक्षिणोऽन्तः करणाधिष्ठानस्य सुखादिरूपवृत्यधिष्ठानत्वात् / वृत्तौ च चैतन्यप्रतिफलनासदाश्रयत्वानुभवः / अत एव संसारस्य स्वसमानाधिकरणज्ञाननिवर्त्यत्वं दुःखादिरूपानर्थस्य मोक्षसामानाधिकरण्यं च सङ्गच्छते / अज्ञाननिवर्तकवृत्तेदुःखादेवान्तःकरणाधिष्ठानसाक्षिण्यध्यासात् // शब्दार्थमाह -तस्येति / तदुपदर्शितसाध्यसाधनभावादिव्यवहारस्यामोक्षं बाधाभावाद्धोजनादिव्यवहारवत्प्रामाणिकतोपपत्तेरिति भावः / किं साक्षिज्ञानमज्ञानविरोधि उत न? उभयथाप्यनुपपत्तिरित्युक्तं चोद्यमनूद्य दूषयति- यदप्युक्तमित्यादिना / न प्रस्मर्त्तव्यं न विस्मरणीयमित्यर्थः / ज्ञानविशेषस्यैवात्मत्वे नियामकं नास्तीत्युक्तं चोद्यमनुवदति-यच्चान्यदिति / दृश्यजन्यपरतन्त्रज्ञानमात्रस्यानात्मत्वं स्वप्रकाशनित्यस्वतन्त्रज्ञानस्यात्मत्वमिति नियामकमस्तीत्याह-तदसदिति / ज्ञानस्यात्मत्वेऽनुभवविरोधमुक्तमनुवदति-यत्त्वज्ञानेति / अयसो वह्नितादात्म्यादग्धृत्वादिवदभोक्तरपि भोक्ततादात्म्याद्भोगवत्त्वानुभव इत्याहतदस्माकमिति / अशनायाद्यतीतेऽप्यात्मन्यौपाधिकसंसाराङ्गीकारान्न बन्धमोक्षयोवैयधिकरण्यं, न वा बन्धतन्निवर्तकशानयोरित्याह-अत एवेति / अतः शब्दार्थमाह-अज्ञानेति / “अथ यो वेद इदं जिघ्राणि” इत्यादिश्रुतिरप्यौपाधिकप्रमातृत्वविषयेत्याह-एवंमन्तृत्वादीति /