________________ 162 सटीकाद्वैतदीपिकायाम् तपादनम् जन्यमिति न दोषमपेक्षते / अन्यथा गुणजन्यस्य दोषाप्रतिबद्धसामग्रीजन्यस्य वा ज्ञानस्य यथार्थत्वमिति न त्वदभिमतेश्वरज्ञानं यथार्थ स्यात् / अपि च त्वदभिमतेश्वरो जीवानां भ्रान्ति जानाति न वा ? / अन्त्ये तस्यासर्वज्ञत्वं जीवभ्रान्त्युच्छेदायोपदेशोऽपि न स्यात् / आये ईश्वरज्ञानमप्यसदर्थविषयं वक्तव्यम् / ज्ञाने विषयनिरूप्यत्वनियमस्य त्वयैवोक्तत्वात् / अन्यथा तस्य भ्रान्तित्वानवगमाच्च / भ्रान्तिलक्षणानुपपत्तिप्रतिपादनम् ननु तदभाववति तत्प्रकारकत्वं भ्रान्तित्वं तच्च ज्ञानेऽ. बाधितमिति चेन्न / तदभाववति तद्वैशिष्टयस्यानवगमे ज्ञाने तत्प्रकारकत्वस्यैवाधिगन्तुमशक्यत्वात्' / एतेनात्मस्वरूपं ज्ञानं यदि बाधितार्थविषयं स्यात्तर्हि तद्रप ईश्वरोऽपि भ्रान्त एव स्यादित्यापादनं प्रत्युक्तम् / बाधितमर्थ नित्यत्वात् / किन्तु तद्विषयोत्पत्तावेवेति नोक्तानुपपत्तिः। परमतेऽपि प्रागभावप्रतियोगिभ्रमोत्पत्तावेव प्रयोजको दोषः, नतु तस्य मिथ्यार्थविषयकत्वेऽपि केवलव्यतिरेकाभावादिति हेतुभाह-दोषो हीति / दोषजन्यस्यैव वाधितार्थविषयत्वेऽतिप्रसङ्गः इत्याह-अन्यथेति / स्वतः प्रामाण्यमतेन दोषाप्रतिबद्धत्युक्तं दोषाजन्यस्याप्ययथार्थत्वं परमतेऽप्यभ्युपेयमित्यभिप्रेत्य विकल्पयति-अपिचेति / द्वितीये परमतेऽनेकविरोध इत्याह-अन्त्य इति / आधे अयथार्थत्वविशिष्टभ्रान्ति. विषयेश्वरज्ञानस्य विशेषणांशे अयथार्थत्वं तवापि संमतम् ! भ्रान्तिविषयानवगमे भ्रान्तित्वस्यैव दुज्ञेयत्वादित्याह-आद्य इति / ___ ननु भ्रान्तिज्ञानेऽबाधिते भ्रान्तित्वादेरपि प्रकारस्याबाधितत्वात्तद्विषय. मीश्वरज्ञानं यथार्थमेवेति चोदयति-ननु तदभावेति / भ्रान्तित्वस्यायथार्थघटितत्वात्तद्विषयज्ञानस्यायथार्थविषयत्वं दुर्वारमित्याहन तदभाववतीति / तटस्थेश्वरज्ञानप्रतिबन्धैव परिपूर्णेश्वरे दोषारोपणं निरस्तमित्याह-एतेनेति / ननु सर्गाद्यकाले परमेश्वरस्यैव वेदतदर्थोपदेष्टत्वात्तज्ज्ञानस्यायथार्थत्वे तन्मूलव्यवहारस्यान्धपरम्परात्वादित्याशङ्कयाह-अत एवेति / अतः 1. ज्ञायमानवैशिष्टयप्रतियोगित्वं प्रकारत्वमितितल्लक्षणादित्यर्थः /