________________ प्रथमः परिच्छेदः 161 तत्र तस्य विद्यमानत्वम ज्ञाने यथार्थत्वम्। अविद्यमानत्वचायथार्थत्वम ? किं वा तत्र तस्याबाध्यत्वं यथार्थत्वम् / बाध्यत्वं चायथार्थत्वम् ? आद्य अात्मस्वरूपमपि ज्ञानं यथार्थम् / प्रतिकाले तद्गोचरप्रपश्चस्य विद्यमानत्वात् / न चैवं तत्प्रतिभास्यस्याविद्यादेास्तवत्वापत्तिः / स्वाधिकरणसम्बन्धाभयत्वलक्षणविद्यमानत्वस्य सत्वात् / त्रैकालिकबाधाभावोपलक्षितस्वरूपाख्यसत्वस्यान्यत्वात्। शुक्तिरूप्यादेरवस्तुनोऽपि साक्षिवेद्यत्वात् / ___ अत एव यथार्थत्वे गुणजन्यत्वं स्यादिति निरस्तम् / त्वदभिमतेश्वरज्ञाने तदभावाच / द्वितीये आत्मरूपज्ञानमयथार्थं तद्गोचरप्रपञ्चस्य बाध्यत्वात् / न च दोषाजन्यज्ञानस्य बाधितार्थविषयज्ञानत्वमनुपपन्नमिति वाच्यम् / दोषो हि जन्यमिथ्याज्ञानोत्पत्ती हेतुः, न च तस्य मिथ्याविषयत्वे, अमिथ्याज्ञाने सति दोषेण विना तदविषयत्वाभावात् / स्वरूपज्ञानं च न चोद्यान्तरमनुवदति ---यत्त्विति / किं तद्वति तत्प्रकारकं ज्ञानं प्रमा? तदभाववति तत्प्रकारकंज्ञानमप्रभा ? / उत यथार्थज्ञानं प्रमा? / अयथार्थज्ञानमप्रमा ? / आद्यं दूपयति-तन्नेति / द्वितीयं शङ्कते-तस्येति / अस्मिन्पक्षे साक्षिज्ञानस्य प्रमाऽप्रमाबहिर्भाव एव नास्तीत्यभिप्रेत्य विकल्पयति-तर्हि किमिति / / प्रथमकल्पे प्रमैवेत्याह-आद्य इति / तर्हि विद्यमानस्यैव सत्त्वरूपत्वात्प्रपञ्चसत्यतापत्तिरितिचेन्न। विद्यमानत्वापेक्षया सत्त्वस्यान्यत्वादित्याह-न चैमिति / ननु सत्त्वाभावे साक्षिवेद्यत्वमेवानुपपन्नमित्यत आह-शक्तिरूप्येति / देशान्तरादौ सतो वाऽसतो वा रूप्यस्य सन्निकर्षाभावेन चाक्षुषत्वायोगादनिर्वचनीयस्य साक्षिवेद्यत्वमेवेति ख्यातिवादे वक्ष्यमाणत्वादिति भावः / शुक्तिरूप्यज्ञानस्य विद्यमानार्थस्य गुणजन्यत्वाभावादेव चोद्यान्तरं निरस्तमित्याह-अत एवेति / तव मतेऽपि नायं नियम इत्याह-त्वदभिमतेति / द्वितीये कल्पे साक्षिरूपज्ञानस्याप्रमारूपत्वेन न तद्वहिभाव इत्याहद्वितीय इति / साक्षिज्ञानस्यायथार्थत्वे दोषजन्यत्वं स्यात् तस्यैव तत्प्रयोजकत्वादित्याशङ्कयाह-न च दोषाजन्येति / सिद्धान्ते दोषो न भ्रान्तिज्ञानकारणम् / तस्य 21