________________ 160 सटीकाद्वैतदीपिकायाम् ज्ञानत्वं न विरुध्यते / अर्थप्रकाशत्वं ज्ञानत्वमिति लक्षणे त्वर्थपद व्यर्थम् / यत्तूक्तम्-अहमिदं जानामोत्यनुभवात् ज्ञातृज्ञेयनिरूप्यं ज्ञानमिति तत्तथैव / न हि यत् ज्ञान तथा प्रतीयते तदनाश्रयमविषयमस्माभिरङ्गीक्रियते। अहमर्थधर्मस्य बृत्तिज्ञानस्य साक्षिविषयस्य सविषयत्वाभ्युपगमात् / साक्षिण एवात्मत्वाभ्युपगमात् / यच्च ज्ञानस्थानादित्वेनाश्रयाद्यनपेक्षायां प्रागभावादिविरोधिदृष्टान्तोदाहरणम् / तदयुक्तम् / प्रागभावादेहि धर्मिग्राहक मानसिड तथात्वम् / न च नित्यसाक्षिणस्तथात्वे किंचिन्मानमस्ति / प्रत्युत तस्याश्रयानिरूपणादगुणत्वाच्चेत्यप्युक्तम् / ज्ञानस्यप्रमाऽप्रमात्वमेवेति निश्चयनिरामः यत्त प्रमाप्रमावहिभूतज्ञानं नास्तीति / तन्न / पराभिमतनिर्विकल्पकस्य तदुभयविलक्षणस्य सत्त्वात् / न हि निर्विकल्पक तद्वति तत्प्रकारकं तदभाववति तत्प्रकारकं वा / तस्य निष्प्रकार कत्वात्। तस्यापि यथार्थत्वमस्तीतिचेत् तर्हि, किं यत्र यत्प्रतीयते नाद्यः / आत्माश्रयापातात् ज्ञाने ज्ञानत्वं च न स्यात् / द्वितीये न विवाद इत्यभिप्रेत्याह-जातिवादिनापीति / उक्तप्रकाशविशेषस्याकाशस्य शब्दाश्रयत्ववदर्थप्रकाशत्वं कादाचित्कभित्याह-तस्य चेति / किश्वेच्छ!दिव्यावृत्तये प्रकाशत्वस्यावश्यकत्वात्तदेव मतद्वयसाधारणं लक्षणमस्तु / तचास्मन्मतेऽनन्तवृत्तिज्ञानऽप्यधिष्ठानतयाऽनुगतं प्रकाशबुध्यालम्बनं चैतन्यमव / तव मते च ज्ञानत्वमित्यर्थपदं व्यर्थमित्याह-अर्थप्रकाशत्वमिति / ज्ञानस्य निर्विषयत्वादिक धर्मिग्राहकमानबिरुद्धमित्यक्तमनूद्य दूषयति-यञ्चेत्यादिना / अनादिज्ञानस्य साश्रयत्वे परोक्तं प्रागभावाद्यदाहरणं वैपम्येण दूषयति--यत्त्वित्यादिना / न केवलमाश्रितत्वे मानाभावः / अनाश्रयत्वेऽपि मानमस्तीत्याह-प्रत्युतेति / चोद्यान्तरमनुवदतियत्त्विति / किं तद्वति तत्प्रकारकं ज्ञानं प्रमा ? तदभाववति तत्यकारकं ज्ञानमप्रमा? / उत यथार्थज्ञानं प्रमा?। अयथार्थज्ञानमप्रमा / आद्यं दूषयति-तन्नेति / द्वितीय शङ्कते-तस्येति / अस्मिन्पक्षे साक्षिज्ञानस्य प्रमाऽप्रमावहिर्भाव एव नास्तीत्यभिप्रत्य विकल्पयति-तर्हि किमिति //