________________ प्रथमः परिच्छेदः 156 काले न सत् / तथापि तत्स्वरूप ज्ञानेन सम्बन्ध इति पचनं तवैव शोभते न विदुषाम् / नित्यज्ञानस्य विषयेण सम्बन्धानङ्गीकारे चार्थस्य प्रकाश इति व्याहतम् / कथं तहिं ईश्वरस्य सार्वज्ञं जगन्निर्माणं वा ? भूतभाविप्रतिसन्धानाभावादिति चेत् स्वात्मानमुपालभस्व यतस्त्वमीश्वरे अतीतायाकारामविद्यावृत्तिं न स्वीकुरुषे, कार्यस्य चानिर्वचनीयत्वम् / तस्मात्कदाचिदर्थप्रकाशस्यापि ज्ञानत्वं न विरुध्यते। अत एव जडव्यावृत्तिरपि। तस्य जडस्यानेवंरूपत्वात् / स्वरूपलक्षणं तु प्रकाशविशेषः। प्रकाशे च विशेषो न जातिरेकव्यक्ती तदभावात्, किन्त्वविद्यानिवृत्त्यनुकूला ज्ञानव्यक्तिः। ज्ञानस्य व्यक्तिस्वरूपत्वकथनम् जातिवादिनापि व्यक्ति विशेषस्य वक्तव्यत्वात्। तस्य चार्यसम्बन्धेऽर्थप्रकाशत्वं दीपस्येव / ततोऽर्थाभावेऽपि तस्य __किं च ध्वंसरूपकार्ये संत्ताभावात्तस्योत्पत्तेः पूर्वमसत्त्वमेव स्यादित्याहएवमपीति / स्वरूपाभावेऽपि सत्तावत्संबन्धः किं न स्यादित्याशङ्कयाऽऽह-- कार्येति / ननु ज्ञाने विषयसंबन्धोऽतिप्रसङ्गपरिहाराय मृग्यते / ईश्वरज्ञाने चातिप्रसङ्ग इष्ट एव तस्य सर्वार्थप्रकाशत्वादित्याशङ्कय षष्ठ्यर्थसम्बन्धाभावे सर्वार्थप्रकाश इत्येतदेवानुपपन्नमित्याह--नित्यज्ञानस्येति--ईश्वरज्ञानस्यातीतादिविषयत्वाभावे बाधकं शङ्कते-कथं तीति / ईश्वरस्य सार्वज्ञाद्यसाधकमतेऽभिनिविशमानं स्वान्तःकरणमेव निन्दयेत्याह-स्वात्मानमिति / नन्वविद्यावृत्तिर्वा कथमसम्बद्धातीतादिकं विषयोकुयोदित्याशङ्कयाऽऽह-कार्यस्य चेति / अनिर्वचनीयवादे आमोक्षं निरन्वयविनाशाभावादसत उत्पत्त्यभावाच्च, दुर्निरूपसूक्ष्मरूपेण पदार्थमात्रस्यातीतादिकालेऽपि विद्यमानतया कल्पितसम्बन्धेन सार्वज्ञाद्युपपत्तिरिति भावः। अर्थप्रकाशत्वस्य ज्ञानोपलक्षणत्वमुक्तमुपसंहरति - तस्मादिति / अथेप्रकाशत्वस्य तटस्थलक्षणत्वे स्वरूपलक्षणं किमित्यपेक्षायां वदति-स्वरूपेति / तहि प्रकाशव्यतिरिक्तविशेषो जातिरेवेत्याशङ्कयाऽऽह--प्रकाशे चेति / परमते आकाशस्वरूपबद्वयक्तिस्वरूपमेव तद्विशेषः / स चाविद्यानिवृत्तिःस्वपरविषयव्यवहारानुकूलस्वरूपेणेतरल्यावृत्तः प्रतीयत इत्यभिप्रेत्याह-किं त्विति / किश्च परमतेऽपि ज्ञानत्वं व्यक्तिमात्रे वर्तते, उत व्यक्तिविशेषे / नाद्यः / घटादावपि प्रसङ्गात् / द्वितीये स विशेषो ज्ञानत्वम् , उत व्यक्तिस्वरूपमेव ? /