________________ 158 सटोकाद्वैतदीपिकायाम् निरस्तम् / न चाभावसत्ता न प्रतियोगिनस्तदातनसत्त्वविरोधिनीति वाच्यम् / अभावस्य स्वसमानाधिकरणप्रतियोगिसत्त्वविरोधित्वात् अन्यथा भावाभावयोर्विरोधो दत्तोदक एव स्यात् / किंचाभावकाले 'प्रतियोगी सन्' इतिवदन् प्रष्टव्यः 'कस्तस्यघटादेर्गुणः, को वा तदाश्रयः, किमिति तदा स न चक्षुरादिना गृह्यते, कथं तदर्थ कारणगवेषणं, कथं वाऽसत्कार्यवादनिर्वाह' इति ? नन्वभावकाले प्रतियोगिनः सत्त्वं वर्त्तते, न स्वरूपमिति नोक्तदोष इति / न, तव मते पदार्थस्वरूपातिरिक्त सत्तायाः सामान्यादावभावात् स्वरूपस्यैव सम्वात् / कार्यस्वरूपाभावे तदुपरक्त सत्ता. जातेरप्यभावेन घटादिसत्ताया वर्तमानताविरोधात् // अधिष्ठानसत्ताऽन्यसत्तानिरासः। अधिष्ठानात्मस्वरूपसत्ताऽतिरिक्तसत्ताजातेरभावाच्च / एवमप्यभावकार्यस्पोत्पत्तेः पूर्व सचायोगाच्च कार्यस्वरूपमभाव चेन्न / तस्यापि स्वाधिकरणे प्रतियोगिसत्त्वविरोधित्वात् / प्रागभावादेरपि तथात्वे प्रतियोगिनोऽन्यत्र सत्त्वासम्भवादसत्त्वमेव परिशिष्यत इत्यभिप्रेत्याऽऽह-न न चाभावसत्तेति / किञ्चाभावकाले सत्त्वे घटस्य रूपादिरहितत्वे घटत्वादनुपपत्तिः। तत्सत्त्वे वाऽनुपलब्धिविरोधः कार्यकारणभावाद्यनुपपत्तिश्चेत्याह--किञ्चाभावकालेति / नन्नभावस्य प्रतियोगिनैव सह विरोधो न प्रतियोगिसत्तया तस्यास्ततोऽ. न्यत्वादिति शङ्कते-नन्वभावेति / सदाकारानुगत बुद्धः परमते सामान्यादि. साधारणकविषयाभावात्तत्स्वरूपमेव सद्बुद्धिविषयत्वात्सत्त्वं, तथा च घटादिस्वरूपातिरिक्तसत्ताऽभावात्तदभावेऽसत्त्वमेवेति दूषयति--न तव मत इति / किञ्च जातिरूपसत्तायाः सत्त्वेऽपि न घटसत्त्वमस्ति / घटाभावे तत्समवायवत्तत्सत्ताया अप्यभावादित्याह--कार्यस्वरूपेति / किं च तत्सत्तायाः सत्त्वेऽपि तत्स्वरूपस्याभावात् स्वरूपसम्बन्धानुपपत्तिरिति द्रष्टव्यम् / ___ ननु सबुद्धेः क्वचित्सत्तासमवायो विषयः / क्वचिच्च सत्तासामानाधिकरण्यं सत्तायां स्वरूपमिति परमतेऽपि सद्बुद्धेरनुगतैकविषयत्वसिद्धिरिति चेन्न / एकाकारबुद्धेः क्वचित् सत्तासमवायइत्यादिविषयवैलक्षण्यायोगात्सद्र पोपादानात्मतादात्म्यादेव 'मृद्धट' इतिवत् 'सन्घट' इति प्रतीत्युपपत्तेरतिरिक्तसत्ताकल्पने गौरवाच्चेत्यभिप्रेत्याऽऽह--अधिष्ठानेति /