________________ 166 सटीकाद्वैतदीपिकायाम ऽनवस्थानात्। धर्मत्वेऽसत्त्वव्याघाताच / न द्वितीयः। एकस्य सदसदात्मत्वविरोधात् / ननु कालभेदेनाविरुद्ध मेति चेन्न / धर्मस्य हि कालभेदेन स्वहेतुसमाजादन्यत्ययो न तु स्वरूपस्य / तथासति स्वरूपभेदापत्तेः। न ह्यभावः कालभेदेन भावो भवति / इत:पूर्वमसदित्यसतो बुध्यनुपपत्तेश्च / तस्य निःस्वभावस्यावच्छेदककालासम्बन्धात् / तस्माद्यत्किञ्चित्कालमसत् तत्सर्वदाऽसदेव, यत्सत्तत्सर्वदा सदेव, न तुभयात्मकं किञ्चिदस्ति / तदाह भगवान् / नासतो विद्यते भावो नाभावो विद्यते सत इति / असतो ऽसत्वमेवे / नियमे ब्रह्मणोऽप्यसत्यापत्तिरित्याशङ्ख्य तान्नरसनम् यत्तु तथासति दृश्यात्मनाऽसद्पस्य ब्रह्मणः स्वरूपेणाप्यसत्त्वं स्यादिति / तन्न / अस्थूलादिवाक्यनिष्प्रपञ्चतया प्रमितस्य ब्रह्मणः सत्यादिवाक्यैः सदादिरूपेण प्रमितत्त्वेनात्मनो ऽसत्वे सर्व शून्यताप्रसङ्गनास्मीत्यनुभवस्यानन्यथासिद्धत्वेन कालभेदेन एवं स एव सदसदात्मापीत्याशङ्कते-नन्विति / घटस्तु कालभेदेन पूर्वविपरीतरूपाश्रयः न तस्य स्वरूपे द्वैविध्यमस्तीति परिहरति-न धर्मस्येति / व्यत्ययो व्यत्यासः / एकस्य नाश इतरस्योत्पत्तिरिति यावत् / सत्त्वासत्त्वयोर्भेदात्तावन्मात्रस्वरूपोऽपि धर्मो भिद्यतेत्याह ---तथा सतीति / असतःकालविशेषसम्बन्धाभिधानमप्ययुक्तमित्याह--इतः पूर्वमिति / आत्मत्वानात्मत्ववत्सत्त्वासत्त्वे व्यवस्थिते एवेति सर्ववादिनः प्रत्याह-तस्मादिति / उक्तेऽर्थ गीतावचनं प्रमाणयति-तदाहेति // असतोऽसत्त्वमेवेति नियमे ब्रह्मणोऽप्यसत्त्वमेव स्यादिति चोद्यमनुवदतियत्त्विति / यद्येन रूपेण किश्चित्कालमसत् तत् तेन रूपेण सर्वदाऽप्यसदितिनियमाद् ब्रह्मणः सर्वदा दृश्यरूपेणासत्त्वस्येष्टत्वात् सत्यादिरूपेण कदाचित्तदसत्वे प्रमाणाभावात् / प्रत्युत तेन रूपेण सत्त्वस्यैव श्रुतियुक्त्यनुभवसिद्धत्वादित्यभिप्रत्याहतन्न अस्थूलादीति / घटादिषु सदनुभवस्याधिष्ठानसत्तादात्म्यविषयत्ववदात्मनि सदनुभवस्य न तदधिष्ठानसद्विषयत्वम् / तदधिष्ठानाभावात् , भावे वा तस्यैवास्मदात्मत्वादित्यभिप्रेत्यानन्यथासिद्धत्वेनेत्युक्तम् / त्वदुक्तनियमस्य तव मत एव व्यभिचार इत्याह--पटरूपेणेति / घटादेरपि सर्वदाऽसत्त्वापादनं प्रमाणविरुद्ध