________________ प्रथमः परिच्छेदः 155 एवं ज्ञानभावादपि न ज्ञानम् / न हि भोक्तभोग्यरहिता भुक्तिरस्ति / न च ज्ञानस्यानादित्वात्तवनपेक्षा। अनादेः प्रागभावस्य प्रतियोगिनि, जीवब्रह्मविभागस्य धर्मिप्रतियोगिनोर, भावरूपाज्ञानस्याऽऽश्रयविषययोः अनपेक्षाप्रसङ्गात् / ज्ञानस्य ज्ञातृज्ञेयनिरूप्यस्वभावत्वाच्च, इदमहं जानामीत्यनुभवात् / नवीनमतेनैव आत्मनोभ्रमप्रमोभयत्वनिरसनम किश्च न तावदात्मरूपं ज्ञानं प्रमातवेधाविद्यादेस्ताविकत्व. प्रसङ्गात् / नापि भ्रमः दोषाजन्यत्वात् / तद्विलक्षणस्य ज्ञानस्याप्रसिद्धः यदीदं ज्ञानमज्ञानविरोधि तदा तन्नित्यनिवृत्तं स्यात् / न चेत्-पटादिवत् ज्ञानमपि न स्यात् / स्मृतिपरोक्षज्ञाने विहायापरोक्षज्ञानस्यैवाऽऽत्मत्वे हेत्वभावाच्च ! किश्च यस्य ममाज्ञानं सोऽहंदुःखमनुभवामीत्यादिप्रत्यक्षेण "यो वेद इदं जिघ्राणीति स आत्मा, एष हि द्रष्टा श्रोता घाता" आत्मरूपज्ञानस्याऽऽश्रयानिरूपणादपि न तस्य ज्ञानत्वमित्याह-एवमिति / अहमिदं जानामीति ज्ञातृशेयसम्बन्धिन एव ज्ञानत्वानुभवात्तद्रहितस्य ज्ञान त्वमेवायुक्तमित्याह-न हि भोक्तभोग्येति / उक्तज्ञानमाश्रयनिरपेक्षमनादित्वादात्मवदित्याशङ्कय व्यभिचारेण दूषयति-न च ज्ञानस्येति / अनादित्वे सत्यनन्तत्वस्य हेतुत्वान्न व्यभिचार इत्याशङ्कय तथात्वे ज्ञानत्वमेव न स्यादित्यभिप्रेत्याऽऽह-ज्ञानस्येति / किमात्मरूपं ज्ञानं प्रमा, उत भ्रमः, किं वोभयबहिर्भूतम् ? नाद्य इत्याह-- न तावदिति / न द्वितीय इत्याह-नापीति / भ्रमस्य दोषजन्यत्वनियमादित्यर्थः / तृतीयं दूषयति-तद्विलक्षणस्येति / प्रमाऽप्रमाविलक्षणस्येत्यर्थः किमात्मरूपं ज्ञानमज्ञानविरोधि उत न ? उभयथाऽप्यनुपपत्तिरित्याह-यदीदं ज्ञानमिति / किं च तव मते किंचित् ज्ञानमात्मा किञ्चिच्चानात्मेति व्यवस्थायां हेतुं न पश्यामीत्याहस्मृतिपरोक्षेति / यच्चोक्तं तद्भदे प्रमाणाभावात्' इति / तद्युक्तम् / प्रत्यक्षश्रुतियुक्तीनां सत्त्वादित्याह-किञ्च यस्य ममेति / तव मते केवलात्मन एवाज्ञानाश्रयत्वात् ! दुःखतदनुभवादीनामज्ञानसामानाधिकरण्यप्रतीतेरनुभवस्याऽऽत्मधर्मत्वसिद्धिरित्यर्थः /