________________ सटीकाद्वैतदीपिकायाम् ज्ञानात्मनोरैक्यप्रतिपादनम् / ___स चायमवस्थात्रय-तदभाव साक्षी नित्यः स्वतन्त्रः सर्वगतोऽनुभव-आत्मा। तभेदे प्रमाणाभावात् , तदभेदे च प्रकृतस्य दृश्यत्वहेतोरेव मानत्वात् / “आत्मैवास्य ज्योतिः प्रज्ञानं ब्रह्म"इति श्रुतेश्च / अत्राऽऽह नवीन: आत्मनो ज्ञानमात्रत्वनिरासशङ्का / आत्मरूपं ज्ञानं सविषयं निर्विषयं वा 1 / आयेऽपि स्वविषयं परविषयं वा 1 नाद्यः, स्ववृत्तिविरोधात् / न द्वितीयः / मोक्षे पराभावात् / अतीतपरोल्लेखे च सुषुप्तिमोक्षयोरतीतविषयोपप्लवापातात् / नापि निर्विषयम् / ज्ञानत्वविरोधात् / अर्थप्रकाशस्यैव ज्ञानत्वात् / अन्यथा घटादेरपि तत्त्वापत्तेः / अर्थाप्रकाशात्मकजडव्यावृत्तिरप्यर्थप्रकाशात्मकत्वं विना न युक्ता / अवस्थात्रयसाक्षिनित्यानुभवचिन्तायाः फलचिन्तामारभते-स चायमिति / उक्तानुभवस्यात्माभेदेऽपि प्रमाणं नास्तीत्यत आह-तदभेदे चेति / अहमनुभवगोचरो, अहमनुभवे प्रकाशमानस्वव्यतिरिक्तद्रष्ट कः, दृश्यत्वादित्यनुमितद्रष्टुर्जडत्वे दृश्यत्वापत्त्था द्रष्ट्रन्तरापेक्षायामनवस्थापातात् दृग्रपत्व सिद्धेरित्यर्थः : श्रुतिरपि ज्ञानात्माऽभेदे प्रमाणमित्याह-आत्मैवेति / अस्य व्यवहर्तुर्व्यवहारसाधनप्रकाश आत्मैवेत्यर्थः / आत्मनश्चिद्रूपत्वमनाहत्य जडत्वमेव बहुमन्यमानस्याभाग्यस्य नवीनस्य प्रलापमनुवदति-अत्राऽऽहेति / भेदसापेक्षविषयविषयिभावस्यैकस्मिन्नसंभव इत्याह-नाद्य इति / परविषयत्वपक्षं दूषयति-न द्वितीय इति / न च मोक्षे द्वैताभावोऽस्तीति वाच्यम् / तदानीमाध्यासिकसंबंधाभावेन चैतन्यस्य तद्विषयत्वायोगात् , तस्याप्यात्ममात्रत्वाच्चेति भावः। ननु तदाऽप्यतीतविषयेण सविषयमिति चेत् तबतीतसंसारेण संसार्यपि स्यादित्याह-अतीतेति / सविषयत्वाभावेऽप्यात्मत्ववत् ज्ञानत्वं कि न स्यादित्यत आह-अर्थप्रकाशस्यैवेति / जडव्यावृत्तस्वरूपस्यैव ज्ञानत्वान्न जडत्वप्रसक्तिरित्याशङ्कयाऽऽहअर्थाप्रकाशेति /