________________ 156 सटीकाद्वतदीपिकायाम इत्यादिश्रुतेश्च दुःखादिभोगरूपस्यानर्थस्य मोक्षसामानाधिकरण्यं, संसारस्य च समानाधिकरणज्ञाननिवर्त्यत्वमित्यादियुक्तश्च जीवस्य ज्ञातृत्वात्कथं ज्ञानमात्रत्वमिति ?नवीनकृतशङ्कायाः परिहारः ___ उच्यते / सत्यमर्थप्रकाशो ज्ञानम् / आत्मस्वरूपज्ञानं चार्थप्रकाशः। प्रपञ्चप्रकाशस्य तद्पत्वात् / मुक्तौ तु प्रपश्चाभावान्न तत्प्रकाशः। न वा तदाऽतीतार्थप्रकाशः / स्वरूपज्ञानस्य स्वसंसृष्टार्थमात्रप्रकाशत्वात् / अत एव मुक्तौ नोपप्लवोऽपि / मुक्तौ ज्ञाना भावनिरासः न चैवं तस्य मुक्तौ निःस्वरूपत्वं स्यादर्थप्रकाशत्वाभावादिति वाच्यम् / अर्थप्रकाशत्वं हि ज्ञानस्योपलक्षणं-व्यावृत्ती श्रुतिमाह-यो वेदेति / ननु इदं जिघ्राणीत्येवंरूपेण प्रमेयप्रमाणप्रमातृसमुदायं यो वेत्ति तस्त्रितयसाक्षी स आत्मेति साक्षिण एव ज्ञानमात्मत्वं श्रुत्यर्थ इति चेन्न / यो वेदेति वेदनाश्रयस्यैवाऽऽत्मत्वाभिधानादिति भावः। ज्ञानात्मभेदसाधकयुक्तिमप्याह-दुःखादीति / स्वतः शुक्लस्यापि पटस्य रक्तद्रव्योपरागे रक्तत्ववत् स्वतो निर्विषयप्रकाशस्वभावस्याऽऽत्मनो घटपटाद्यपरागे सविषयत्वं, तदपायेरक्तद्रव्यापाये पटशौक्ल्यवत् स्वाभाविकनिर्विषयप्रकाशात्मत्वमेव / ___ तथा च न सविषयत्वानुभवविरोध इत्यभिप्रेत्य सिद्धांतयति-उच्यत इति / मुक्तावतीतार्थविषयोऽनुभवोऽनङ्गीकारपराहत अयुक्तश्चेत्याह-न वा तदेति / मुक्तौ निर्विषयत्वादेव न संसारप्रसङ्ग इत्याह-अत एवेति / मुक्तौ ज्ञेयाभावे ज्ञानाभावप्रसङ्गात् शन्यतापत्तिरित्याशङ्कयाऽऽह-न चैवं तस्येति / ज्ञानस्वरूपस्यार्थघटितत्वाभावात , तदभाबेऽपि ज्ञानस्य न नि.स्वरूपत्व. मित्यभिप्रेत्याऽऽह-अर्थप्रकाशत्वं हीति / उपलक्षणमित्येतद्विवृणोति-व्यावृत्ताविति / अयावद्रव्यभाविनोऽपि गन्धादेर्जलादिभ्यः स्वाश्रयव्यावर्तकत्वाद्गंधवती पृथिवीत्युच्यते यथा, एवमर्थप्रकाशो ज्ञानमित्युच्यते / तथा च प्रलयादी गंधाभावेऽपि पृथिवीपरमाणुसत्त्ववत् , अर्थाभावेऽपि मुक्तौ ज्ञानसत्त्वोपपत्तिरित्यर्थः / किंचार्थप्रकाशत्वस्य ज्ञानस्वरूपत्वे तद्विशेषणत्वे वा पराभिमतेश्वरज्ञानस्यास्मदादिज्ञानवैलक्ष ण्यायसर्वदा सर्वार्थप्रकाशत्वं वक्तव्यम् , तदनुपपन्नम् / इदानो