________________ प्रथमः परिच्छेदः नचैतावता ब्रह्मात्मकचैतन्यं गुणः / सर्वाश्रयत्वस्वातन्त्र्याभ्यां ततो बिलक्षणत्वात् / चैतन्यस्य सर्वावभासकत्वसर्वोपादानत्वाभ्यां सर्वाश्रयत्वात् / आश्रयानिरूपणेन स्वातन्त्र्याच्चेति सिद्धमगुणमनादि नित्यं जाग्रति प्रमातृप्रमितिप्रमेयतदभावसाक्षि चैतन्यमिति // स्वाप्नज्ञानस्य साक्षित्वेन नित्यानुनवसाधनम् / अस्ति खलु स्वप्ने गजादिविज्ञानम् 'अयं गज' इति / उत्थित्तस्य तदनुस्मृतेः न च सा दिवसान्तरानुभूतविषया देशविशेषे गजादेः पूर्वमननुभूतत्वात् / स्वप्ने दृष्ट इत्यनुसन्धानाच्च / अत एव न स्वाप्नज्ञानं स्मृतिः। 'स्वप्ने करिणमन्वभूवम्'इति तदनुभवत्वप्रतिसन्धानात् / / अस्मार्षमित्यननुभवात् / तद्विषयस्य देशविशेषसंसर्गस्य पूर्वमननुभूतत्वात् / स्मर्यमाणयोरेवा सर्वाश्रयत्वादिकमुपपादयति - चैतन्यस्येति / दृकदृश्ययोर्वास्तवतादात्म्यादेरसम्भवात् , दृशोऽध्यस्तत्वे जगदान्ध्यप्रसङ्गात् , दृश्येव जडप्रपञ्चोऽध्यस्तोऽवभासत इति सर्वावभासकत्वात् सर्वाश्रयत्व मित्यर्थः / उपपादितं साक्षिस्वरूपमुपसंहरतिइति सिद्धमिति / जाग्रति प्रमातृतद्धमतदभावसाधकतया नित्यसाक्षिणं निरूप्य स्वप्ने कादाचित्कानुभवासंभवात् , तत्कालीनसर्वावभासकतया नित्यसाक्षिणं निरूपयति-स्वप्नेति / स्वाप्नज्ञानस्य हेत्वभावान्नित्यतां वक्तुं प्रथमं तत्र ज्ञानं साधर्यात- अस्ति खल्विति / ____ननूस्थितानुस्मृतेरतीतजाग्रत्यनुभूतगजादिविषयत्वान्न स्वाप्नानुभवा. काक्षेत्याशक्याह-न च सेति / स्वमन्दिरमध्यवर्तिगजस्कन्धारूढतया स्वस्य स्मयमाणत्वात् स्वस्य जाग्रदन्तरे तथाऽननुभवादित्यर्थः / तदनुभवस्य स्वप्नकालीनत्वमपि स्मयत इत्याह -स्वप्नेति / पूर्वानुभवाभावादेव न स्वप्नज्ञानस्य संस्कारजन्यत्वमित्याह-अत एवेति / तस्मिन्ननुभवत्वस्यापि प्रतिसन्धीयमानत्वान्न स्मृतित्वमित्याह--स्वप्न करिणमिति / तस्य स्मृतित्वे 'अस्माषम्' इति परामशः स्यात् / न च सोऽस्तीत्याह--अस्मामिति / स्मृतिरूपे तस्मिन्ननुभवत्वमा.