________________ 148 सटीकाद्वैतदीपिकायाम् विषयसम्बन्धीति वाच्यम् / उपलब्धिसमवायस्योपलभ्यन्तरागोचरत्वात् / एतेन परिशेषादुपलब्धिर्गुण इति परास्तम् / परिशेषासिद्धेश्च / उपल धेरपि बुद्धितादात्म्येन दुःखादिगुणाधिष्ठानतया द्रव्यत्वात् / / द्रव्यत्वलक्षणनिरासः वस्तुतस्तु न गुणाश्रयत्वं द्रव्यत्वम्। रूपादावतिव्याप्तेः / एकाश्रयरूपादावनेकत्वानुभवव्यवहारयोर्दर्शनात् / अत एव न समवायिकारणत्वम् / नापि द्रब्यत्वं जातिरेव / तव्यञ्जकानिरूपणात् / तत्प्रमाणानुगतबुद्ध्यदर्शनाच्च / न हि मृज्जलघटपटकटादिषु द्रव्यंद्रव्यमित्यनुभबन्ति लौकिकाः / लौकिकानुभवस्यैव जातिसाधकत्वात् / अतो न पारिभाषिकद्रव्यलक्षणलक्ष्यं चैतन्यम् / वत्त्वं द्रव्यत्वप्रयोजकमिति चेन्न / तस्यैवाभावात् / भावे वा तस्यैकत्वेन तत्रापि वक्तुं शक्यत्वात् / ननु तत्र दुःखादिसत्त्वं नास्तीति चेन्न / गुणस्य कुत्रापि सत्त्वाभावात् / ननु धमिसानसत्ताकगुणाश्रयत्वमेव व्यत्वप्रयोजकमिति चेन्न / तव मते विशेषणव्यावाभावात् / लाघवेन गुणाश्रयत्वस्यैव तत्प्रयोजकत्वादिति भावः / / किश्च द्रव्यत्वं नाम किंचिन्नास्त्येव, येन तत्पर्य दासेन गुणत्वमनुभवे स्यादित्याह-वस्तुतस्त्विति / रूपादीनामपि संख्यादिमत्त्वादित्यर्थः / ननु रूपादौ संख्यासामानाधिकरप्यादिकत्वादिबुद्धिन संख्याश्रयत्वादित्यत आह-एकाश्रयेति / एकस्मिन् घटे रूपादयो बहव इति प्रतीयमानाया बहुत्व संख्याया घटे तदभावादित्यथः। रूपादावतिव्याप्त्यैव लक्षान्तरमयुक्तमित्याह-अत एव नेति / तर्हि गोत्वादिवजातिरेवेत्यत आह-नापीति / त्वदभिमतद्रव्येषु जातिसाधकप्रमाणमपि नास्तीत्याहतत्प्रमाणेति / ननु मन्मते व्युत्पन्नानां तत्रानुगतबुद्धिरस्तीत्याशक्याह-लौकिकेति / अन्यथा बाह्यमते व्युत्पन्नानां चैत्यवन्दनादावपि धनत्वबुद्धिसत्त्वात्तत्रापि धर्मत्वं स्यादित्यर्थः। तस्मात् पारिभाषिकत्वात् द्रव्यलक्षणस्य तदभावो ममापीष्ट इत्याहअत इति / तहिं द्रव्यत्वाभावे परिशेषाद् गुणत्वमित्याशङ्क्याह- नचैतावतेति /