________________ प्रथमः परिच्छेदः 147 गुणत्वे वा तदाश्रयेऽनित्यज्ञानसवायोऽपि न स्यात् / प्रत्यक्षद्रव्य एकजातीयप्रत्यक्षविशेषगुणवयस्य युगपदेकावच्छेदेनैकत्रा. समवायात् / अत एव न शब्दे व्यभिचारः। प्रत्यक्षात्मगुणस्य स्वसमानाधिकरणस्वसमानजातीयगुणस्थितिकालीनास्थितिकत्वनियमाच्च दुःखादिवत् // जन्यज्ञानद्व यस्य युगपदेकत्र स्थित्यभावः / ____ न च जन्यविशेषगुणद्वयस्य तथात्वमिति वाच्यम् / जन्ययोरपि शब्दयोयुगपदस्थितिदर्शनात् / इतो ऽन्यथा कल्पने गौरवात् / किचाहमुपलभ इति प्रत्यक्षे य आत्मन्युपलब्धिसम्बन्धो भासते स न तावत्तादात्म्पम् / जडाजयोर्वास्तवतादास्म्यानुपपत्तः / नापि समवायः। तस्यैवासिद्धेः / तस्योपलब्धिसम्बन्धाभावाच्च / तत्सम्बन्धमन्तरेग तस्याप्रत्यक्षत्वात् / न च समवायविषयमुपलब्ध्यन्तरमस्तु तत्र च घटादिरिव समवायो ननु विशेषगुणद्वयस्य जन्यत्यप्रयुक्ता युगपदेकत्रास्थितिः जन्याजन्ययोस्तु सा किन्न स्यादित्याशङ्कय तथात्वे जन्यशब्दद्वयस्यैकश्रोत्रदेशे युगपदस्थितिप्रसङ्गादित्यभिप्रेत्याह-न च जन्येति / ननु प्रत्यक्षद्रव्यगतत्वे सति जन्यत्वं तत्प्रयोजकमिति चेत् / लाघवादुक्तगुणद्वयस्य प्रत्यक्षगतत्वस्यैव तत्प्रयोजकत्वादित्यभिप्रेत्याह-इतो ऽन्यथेति / किञ्च नित्योपलम्भस्याहमर्थन सम्बन्धाभावादपि न तद्गुणत्वम् / तथाहि-क तत्सम्बन्धस्तादात्म्यमुत समवायः ? नाद्यः तव मते तदयोगादित्याह-स न तावदिति / द्वितीयत्वप्रामाणिक इत्याह-नपीति / तदभ्युपगमे ऽपि किं घटोपलब्धिस मवायस्तयव भासते उपलब्रन्तरेण वा ? नाद्यः तत्सम्बन्धाभावादित्याह-तस्येति / स्वरूपसम्बन्धस्यातिप्रसक्तत्वादिति भावः / सम्बन्धाभावेऽपि तद्गोचरत्वे ऽतिप्रसङ्गादित्यभिप्रेत्याह-तत्सम्बन्धेति / द्वितीयमपवदति-न चेति / उपलब्धि. समवायगोचरस्योपलब्ध्यन्तरस्य नागृहीतविशेषणान्यायेनोपलब्धिगोचरत्वमपि वक्तव्यम् / तच्च न सम्भवति स्वप्रकाशत्वविरोधादित्याह-उपलब्धीति / गुणत्वे ऽप्युक्तबाधकसत्त्वान्न तस्य परिशिष्टत्वमित्याह -एतेनेति / किं च नित्यानुभवस्य पारिभाषिकद्रव्यत्वसंभवादपि न परिशेष इत्याह-परिशेषेति / ननु गुणसमवाय