SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 146 सटीकाद्वैतदीपिकायाम संयोगभेद एव धारावाहिज्ञानभेदप्रयोजकः / एवं च सति धारावाहिकज्ञानभेदो न तद्भेदप्रयुक्त इति संयोगभेद एव प्रयोजकः / एवमनुव्यवसाये ऽपि स एव प्रशेजकः / क्लप्तत्वान्न त्वन्यः तस्याक्लप्तत्वात् / अन्योऽपि न तावसामग्रीभेदस्तत्प्रयोजकः / सामग्रीभेदाभेदयोः कार्यभेदाभेदप्रयो. ज्यत्वात् / कारणभेदव्यतिरेकेण सामग्रीभेदानिरूपणाच / नापि कारणभेद एव प्रतिकार्यमनेककारणजन्यत्वात् / नापि विषयभेदः / समूहालम्बनविशिष्टज्ञानयोरनेकविषयजन्यत्वात् / तस्मा. प्रतिज्ञानं संयोगभेदजन्यत्वादनुव्यवसायायोगादिन्द्रियग्राह्यत्वघटितो गुणत्वहेतुरसिद्धः। एतेन कार्यत्वे सति विभुसमवेतत्वं सामान्यवन्वे सति विभुसमवेतत्वं वा ज्ञानगुणत्वहेतू प्रत्युक्तो। नित्यानुभवस्य किश्च मनःसंयोगभेइव्यतिरेकेण व्यवसायभेदप्नयोजकः किं कारणभेद उत सामग्रीभेदः विषयभेदो वा ? न मध्यमो ऽनेककारणात्मकसामग्रथैक्यस्यैककार्यजनकत्वौपाधि कत्ववत् तदनेकत्वस्याप्यनेक कार्यजनकत्वप्रयुक्तत्वादन्योन्याश्रयता. पत्तेरित्यभिप्रत्याह--अन्योऽपि न तावदिति / प्रथमे कारणत्रितयजन्यकार्यस्यैकत्वानु. पपत्तिरित्याह--नापि कारणेति / तृतीये ऽनेकविषयकज्ञानानुपपत्तिरित्याह-नापीति / संयोगभेदस्य ज्ञानभेदे हेतुत्वसाधनफलमाह-तस्मादिति / अनुव्यवसायायोगादिति व्यवसायजनकसंयोगातिरिक्तसंयोगस्यावश्यकत्वात्तत्समये व्यवसायनासात्तत्कार. णकानुव्यवसायानुपपत्तिरित्यथः / अनुभवे कार्यत्वपरतन्त्रत्वादिनिरोकरणेनान्यदपि हेतुद्वयमसिद्धमित्याह-एतेनेति / प्रतिकूलतर्कपराहतिमप्याह-नित्यानुभव. स्येति / साधितनित्यानुभवस्य गुणत्वे तस्यानित्यज्ञानसमवाय्यहमर्थगुणत्वमेव वक्तव्यम् / तथाच तत्रानित्यज्ञानसमवायो न स्यादित्यर्थः / तत्र हेतुमाहप्रत्यक्षद्रव्य इति / रूपरसादिव्यावृत्त्यथमेकजातीयेत्युक्तम् / गुणत्वव्याप्यैकजातीयेत्यर्थः / धर्मादिव्यावृत्तये-प्रत्यक्षेति / द्वित्वैकत्वनिरासाय विशेषगुणेति / क्रमभाविदुःखद्वयनिरासाययुगपदिति / हस्तद्वयमात्रे युगपद्भाविप्रयत्नद्वयस्य चित्ररूपस्य वा निरासायैकावच्छेदेनेत्युक्तम् / प्रत्यक्षद्रव्य इत्यत्र प्रत्यक्षपदव्यावृत्तिमाह-अत एवेति / तत्रैव हेत्वन्तरमाह-प्रत्यक्षात्मगुणस्येति / धारायामुत्तरज्ञानोत्पत्तिकालीन स्थितिकपूर्वज्ञानव्यावृत्तये स्थितिकालीनेत्युक्तम् //
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy