________________ प्रथमः परिच्छेदः 145 ब्रह्महत्याजन्यस्यान्यतोऽसम्भवात् / दुःखे च तरतमभावस्य मुख इव सर्वानुभवसिद्धत्वात् / अन्यथा पिपीलिकादंशक्रकचदारणप्रभूतयोरविशेषप्रसङ्गात् / न च प्रागभावो यत्किञ्चित्प्रतियोगिमा. त्रमुत्पादयति प्रतियोगिविशेषस्तु भावकारणादिति वाच्यम् / तथा सति पाकजस्थल एकस्मादप्पग्निसंयोगादरूपादिवैचित्र्यस्य गन्धप्रागभावश्च न रूपं प्रति हेतुः रूपप्रागभावश्च न वायावित्यादित्वदभ्युपगतस्य व्याघातात् / उत्पन्नघटस्य पुनरुत्पत्त्यापतेश्च / घटकालोनकपाले ऽपि यत्किञ्चित्प्रागभावस्य सत्त्वात् मृदि घटो भविष्यतीतिवत् पटो भविष्यतीति प्रतीतिप्रसङ्गाच / न च मुमुक्षूणां ब्रह्महत्यादिजन्यदुःखप्रागभाव एव नास्तीति वाच्यम् / तेन दैवात्सम्पादितब्रह्महत्यातत्प्रायश्चित्तयोरफलत्वप्रसङ्गात् / तत्सन्देहे ऽप्यमुमुक्षापत्तेश्च / ततः प्रागभावो न हेतुः॥ प्रेत्याह-अन्यथेति / ककचं नाम दारुविदारको लोहविशेषः / नन्वेकैकस्यापि प्रागभावस्य कायमात्रसाधारणत्वात्कार्यवैनात्यस्य तद्वयतिरिक्तकारणवैजात्यप्रयुक्तत्वात्दुः खप्रागभावस्यापि यत्किञ्चित्कार्यजननेन नाशे मुक्तिरिति नेत्याह-न च प्रागभाव इति / रूपादिव चित्र्यस्येत्यभ्युपगतस्य व्याघातादित्युत्तरेण सम्बन्धः तत्र प्रागभाव. व्यतिरेकेण रूपादिषु विजातीयकारणाभावादित्यर्थः-अभ्युपगतस्य चेति चकारो द्रष्टव्यः / अस्मिन्पक्षे प्रागभावकारणता मुधैवेत्यभिप्रेत्याह-उत्पन्नेति / किञ्च मृन्निष्ठाभावस्यापि घटजनकत्वाद्भविष्यतीति बुद्धः नागभाव विषयत्वस्य त्वयाङ्गीकारान्मृदि पटो भविष्यतीति बुद्धिरपि प्रमा स्यादित्याह--मृदीति / ननु मुमुक्ष्वात्मनि तादृशदुःखप्रागभाव एव नास्ति तथाच तन्नाशार्थ न पापाचरणमिति चेन्न / कृतब्रह्महत्याप्रायश्चित्तं मुमुक्षौ तद्दुःखप्रागभावसत्त्वनिश्चयात् / प्रायश्चित्तस्य दुःखप्रागभाव परिपालन फलकत्वेन त्वयाभ्युगमादित्याह--न च मुमुक्षणामिति / अन्येषामपि मुमुक्षणां तादृशदुःखप्रागभावसत्त्व निश्चयाभावात् फलनिश्चयाभावेन शास्त्र.यप्रवृत्तेरनुपपत्तेरित्याह-तत्सन्देहे ऽपीति साधकामावाबाधकसत्त्वाच्च न प्रागभावः प्रतियोगिकारणमित्युपरहरति-तत इति / यदर्थे प्रागभावकारणत्वं भग्नं तदर्शयति-एवं च सतीति /