________________ 144 सटीकाद्वैतदीपिकायाम च प्रागभावस्य प्रतियोगिहेतुत्वेऽनिर्माक्षो मुमुक्षणां ब्रह्महत्याद्यनुष्ठानं वा प्रसज्येत। तथा हि-प्रागभावो ह्यवश्यं प्रतियोगिजनकः / अन्यथा तत्र मानाभावात्तद्विनाशासम्भवाच्च / प्रतियोग्यजनकेनापि तद्विनाशे पूर्वमपि तत्प्रसङ्गात् / अविनाशे वा न तस्य प्रागभावत्वम् / अदृष्टानाधारसमयानाधाराभावस्यैव प्रागभावत्वात्। ततश्च ब्रह्महत्यादिजन्यदुःखविशेषप्रागभावे सति तत्वज्ञानसहस्रणापि न मोक्षः। दुःखप्रागभावासहकृतस्य दुःखध्वं सस्य सुखस्य वा मोक्षत्वात् / दुःखप्रागभावनिवृत्यर्थं मुमुक्षणां तत्प्रतियोगिजनकब्रह्महत्यादिकं वाऽनुष्ठेयं स्यात् / तेन विना तदसम्भवात् / अन्यदुःखेन दुःखनिवृत्यभावः / ननु कण्टकादिनापि तद्दःखप्रागभावः स्वप्रतियोगिनं जनयत्विति चेन्न, तस्यातत्फलत्वात् / निरतिशयदुःखस्य मुमुक्ष्वात्मगतानां स्वप्रतियोगिदुःखरूपस्वनाशजनकब्रह्महत्याद्यननुष्टाने नाशायोगात् तन्नाशामावे दुःखप्रागभावासह कृत दुःखध्वंसादिरूपमोक्षायोगात्तदर्थ तव मते बुद्धिपूर्वकं मुमुक्षभिदुरिताचरणं प्रसज्येतेत्यर्थः / उक्तमुपपादयति--तथा हीति / उत्पनस्य पुनरनुत्पत्त्यनुपपत्तरेव तव प्रागभाबे मानत्वात्तस्य प्रतियोग्युत्पादकत्वनियमाभावे स्वसिद्धिरेव न स्यादित्याह--अन्यथेति / स्वप्रतियोगिन एव स्वविनाशत्वाच्च तदुत्पत्तिरावश्यकीत्याह-तद्विनाशेति / अन्यस्मात् कमेणस्तन्नाशमाशङ्कयाह -प्रतियोगीति / नित्यस्य दुःखप्रागभावस्यानर्थत्वाभावातन्नाश एव मास्त्वित्याशङ्कय त्वन्मते सवमुक्त्यनन्तरमसत एवाभावस्य प्रागभावत्वान्न तस्य नित्यतेत्याह -अविनाशे वेति / तन्नाशाभावे तव मोक्षासम्भवश्चेत्याह-ततश्चेति / सुखस्य वेति मतभेदाभिप्रायेणोक्तम् / मोक्षापेक्षायां दुरिताचरणं तवावश्यकमित्याह-दुःखप्रागभावेति / अस्तु तय न्येन दुःखसाधनेन तन्निवृत्तिरिति चोदयति-नन्विति / दुःखेष्ववान्तरबैजात्यस्यानुभव सिद्धत्वाद् दुग्धपानसाध्यसुखस्येव यवागू. पानेन ब्रह्महत्यासाध्यदुःखस्य कण्टकादिनोत्पत्त्ययोगादित्याह-न तस्येति / दुःखेषु वैजात्याभावे सन्निहिततत्साधनं परित्यज्य तद्विशेषोपादाने प्रवृत्त्यनुपपत्तिरिभि