SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः 143 हितोत्तरक्षणस्य सामग्रयप्रयोज्यत्वात् / किन्तु कार्यस्योत्तरक्षणसत्वे स चेदादिस्तदोत्पत्तिरिति व्यवहियते। किश्च पूर्वक्षणः कारणं तद्विरहावोत्पन्नस्य पुनरनुत्पादः / न च कारणान्तरविलोपप्रसङ्गः। युगपदुत्पन्नकार्यवैचित्र्यार्थ विचित्रकारणस्यावश्यकत्वादिति केचित् / न च कार्यमात्रभेदप्रयोजकत्वेन प्रागभावकारणता। तद्भेदस्य कार्यभेदप्रयुक्तत्वा. दननुगमाच्च / प्रागाभावभेदस्य पाकजरूपादिभेदहेतुत्वनिरासः एतेन पाकजरूपादीनां प्रागभावभेदेनैव भेव इति त - तुत्वमिति निरस्तम् / पूर्वरूपादिध्वंसादिनैव तदुपपत्तः। अपि तदा पूर्वक्षणलक्षणकारणविरहात् / न च पूर्वक्षणस्य कारणत्वकल्पकाभावः / पुनरनुत्पत्त्यनुपपत्तेरेव तत्कल्पकत्वादित्यभिप्रेत्याह- किं चेति / . पूर्वक्षणस्य कारणत्वे तस्मिन सतीतरस्य व्यतिरेकाभावादकारणत्वप्रसङ्ग इत्याशङ्कयकक्षणोत्पन्नघटपटादिवैचित्र्यानुपपत्तेरन्वयमात्रेणापि तर्कावतारे फारणताग्रहसम्भवाच्चेतरेषामपि कारणत्वमित्यभिप्रेत्याह-न च कारणान्तरेति / कार्यभेदस्य प्रागभावभेदप्रयोज्यत्वात्तदकारणत्वे तदनुपात्तेस्तत्कारणत्वमित्याशङ्कथाह-न च कार्येति / यस्य कार्यभेदोऽस्ति तस्य सामग्रीभे: एव तत्प्रयोजकः। कार्यभेदे विप्रतिपन्नं प्रति तु प्रागभावभेदात्तद्भेदो वक्तव्यः। तथा चान्योन्याश्रय इत्यभिप्रेत्याह-तद्धेदस्येति / किश्च तव मते प्रागभावे भावस्याभावस्य वानुगतधर्मयाभावात्तत्प्रागभावस्य तत्तदुत्पन्नकार्यमात्रे कारणता ग्राह्या / तथा च प्रवृत्त्यनुपयोगात्तत्कारणत्व मदृष्टार्थमित्यभिप्रेत्याह- अननुगमाञ्चेति / ___ एकाग्निसंयोगजरूपरसादीनां भेदप्रयोजकतया प्रागभावभेदो वक्तव्यः, तद्वयतिरिक्तकारणभेदाभावादित्याशङ्कयाह-एतेनेति / पूर्वरूपादिध्वंसे सत्येव जायमानत्वात्तद्भेदादग्नितदवयवापनेकतेजःसंयोगभेदाद्वा रूपादिभेदोपपत्तिरित्याह-पूर्वरूपेति / न च परमाणौ तेजःपरमाणुसंयोगादेकस्मादेव रूपादय उत्पद्यन्त इत्यत्र किञ्चिन्मानमस्ति परमाणूनामप्रामाणिकत्वाच्चेति भावः / एवं प्रागभावकारणताऽभावे पाधकं परिहत्य सत्कारणत्वे बाधफमाह-अपि चेति / ब्रह्महत्यादिदुरितसाध्य दुःखप्रागभावानां
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy