________________ 142 सटोकाद्वैतदीपिकायाम पन्धकाभावत्वेन कारणत्वे प्रमाणाभावात् / न च कार्यानुत्पादप्रयोजकभावत्वं प्रतिबन्धकत्वम्, उत्तेजकाभावे तदभावात् / विनिगमकाभावेन तस्यापि प्रतिबन्धकत्वात् / तस्मात् प्रतिबन्ध काभावो न कारणम् / सामग्रघा कार्येण सह व्याप्तिव्युत्पादनम् किश्च सामग्रयाः स्वानन्तरक्षणे कार्यसम्बन्धेन व्याप्तिः, न तु तदुत्पत्याचक्षणसम्बन्धेन। अयोजकत्वाद् गौरवाच्च / न च सामग्री कार्योत्पत्तौ प्रयोजिका, अन्यथोत्पत्तेराकस्मिकत्वप्रसङ्गादिति वाच्यम् / उत्पत्तिाद्य समयसम्बन्धः। न च सामग्री समयस्याद्यत्वेऽपि प्रयोजिका, कार्यानाधारक्षणाव्यवसहितत्वेनोत्तेजकाभावस्य व्याप्यत्वमिति वाच्यम् / एकोत्तेजकाभावस्य मण्यादि. सकलसहितत्वानुपपत्तेः / न च तत्तन्मण्यादिसहिततत्तदुत्तेजकाभावत्वेन नव्याप्यत्वमिति वाच्यम्। तथा सति कार्यानुत्पादस्यापि तत्तन्मण्यादिकालीनत्वेन व्यापकतापत्त्या व्यापकतावच्छेदकनानात्वेन व्याप्यतानानात्वात्तत्प्रतियोगित्वरूपोत्तेजकत्वनानात्वापत्त्या तदभावविशिष्टमण्याद्यभावत्वस्यापि नानात्वेनानुगतरूपाभावाद्वयभिचारिणां तेषां कारणतामहायोगात् / कारणता हि व्यापकताविशेषः स चाननु. गसेन नावच्छिद्यते / इतरथा रासभत्वादीनामपि तदवच्छेदकत्वप्रसङ्गात् / तस्मात् प्रतिबन्धकाभावस्य कारणत्वमनुपपन्नमेवेत्युपसंहरति- तस्मादिति / तथा च घटप्रागभावो न प्रतिबन्धकाभावो न वा प्रतिबन्धकाभावत्वेन कारणमिति भाषः। किञ्च प्रागभावस्याकारणत्वेन प्रतियोगिन उत्पत्तिसमये सामग्रीसत्त्वेऽपि पुनरपि कार्योत्पत्त्यापादनमयुक्तम् / सामग्रया हि स्वानन्तरक्षणे कार्यसम्बन्धेन व्याप्तिः / न तु तदा तस्याद्यक्षणसम्बन्धलक्षणोत्पत्त्यापि गौरवात् / तया विनाऽनुपपत्त्यभावाच्चेत्याह-किञ्चेति / उत्पत्तरेव सामग्रीप्रयोज्यत्वात्तयैव तद्व्याप्तिरित्याशङ्कयाह-न चेति / सामग्रयाः स्वानन्तरक्षणे कार्यसम्बन्धे सति तत्क्षणस्याद्यत्वं तत्पूर्वक्षानां कार्यानाधारत्वप्रयुक्तं तदापि कार्यसत्त्वे तदुत्तरस्यैतस्य प्रथमत्वायोगात् / तथा च कार्याधारक्षणस्याद्यत्वं न सामग्रीप्रयोज्यमित्यभिप्रेत्याह-उत्पत्तिहीति / स चेदादि. रिति / कार्यतद्ध्वंसानाधारक्षणाव्यवहितोत्तरक्षणश्चेदित्यर्थः। सामग्रयनन्तरक्षणे कार्योत्पत्तिनियमेऽपि तदुत्पत्तिकाले सामप्रयभावादेव न पुनरुत्पत्तिः / तदभावश्च