________________ प्रथमः परिच्छेदः 141 प्रयोजकत्वं प्रतिबन्धकत्वम्, प्रतिबन्धकाभावत्वेन कारणत्वमिति निरस्तम्। दण्डाभावादौ प्रतिबन्धकलक्षणस्यातिव्याप्तेश्च / न च सोऽपि प्रतिबन्धक एव, तथा व्यवहाराभावात् / न हि चक्राद्यसमवहितायां मृदि प्रतिबन्धाद् घटं न जनयन्तीति न्यवहरन्ति / लक्षणस्य व्यवहारातिपाते जलस्योष्णस्पर्शी लक्षणं किन्न स्यात् / मृदादेरपि प्रतिबन्धकाभावतया कारणत्वप्रसङ्गोन कार्यविशेषस्याकस्मिकत्वप्रसङ्गात् / मृत्त्वादिनापि कारणत्वे प्रति कारणत्वग्रहसम्भवादित्यभित्याह-न चैवं दण्डादेरिति / ननु प्रतिबन्धकामावसङ्ग्राहकत्वेन लक्षणान्तरोक्तौ दण्डादिसङ्ग्राहकत्वेनापि यस्य कार्यात् पूर्वकाले येन सम्बन्धस्तत्तनान्यथासिद्धमित्यादिलक्षणान्तरस्यापि वक्तुं शक्यत्वात्तदप्यन्यथासिद्धं किन्न स्यादित्याशङ्कयाह-कार्यानुत्पादेति / परमते कायोनुत्पादप्रयोजकत्वस्य निर्वतमशक्यत्वाद् दुर्घहत्वाच्च लक्षणान्तरमप्यनुपपन्नमित्याह-एतेनेति / अस्मन्मत इन तत्प्रयोजकत्वं तद्वयाप्यत्वं चेदतिव्याप्तिरित्याह-दण्ड भावादाविति / तस्यापि प्रतिबन्धक्रत्वमिष्टमिति तटस्थाशङ्कां निराकरोति-न च सोऽपीति / व्यवहाराभावेऽपि तल्लक्षणलक्षितत्वात्तथा किन्न स्यादित्याशङ्कय व्यवहारातिपातिलक्षणमेव न सम्भवतीत्यभिप्रेत्याह-लक्षणस्येति / किञ्च कारणाभावस्यपि प्रतिबन्धकत्वे मृद्दण्डादेः किं प्रतिवन्धकाभावतयैव कारणाता उतमृत्त्वादिरूपेणापि / आद्य तन्त्वादेरपि प्रतिबन्धकाभावतयैव कारणातावप्रसङ्गेन कारणवैजात्यस्याप्रयोजकत्वेन घटपटवै जात्यानुपपत्तिरित्याह-मृदादेरपीति / द्वितीये मृत्त्वादिनैव कारणत्वेऽपि तदन्वयव्यतिरेकयोरुपपत्तरूपान्तरेण कारणत्वेप्रमाणं नास्तीत्याह-मृत्त्वादिनापीति / कारणाभावेऽतिव्याप्तिपरिहाराय विशेषणान्तरमाशङ्कयाव्याप्त्या दूषयति-न च कार्यानुत्पादेति / विशेषणविशेष्यभावस्यानियतत्वेन मण्यादिविशिष्टोत्तेजकाभावस्यापि प्रतिबन्धकत्वात्तत्राव्याप्तिरेवेत्याह-विनिगमकेति / ननु मण्यादिकालीनकार्यानुत्पादप्रयोजकाभावप्रतियोगित्वमुत्तेजकत्वम् / उत्तेजकाभावविशिष्टमण्याद्यभावत्वेन कारणत्वं कारणीभूताभाव प्रतियोगित्वेन प्रतिबन्धकत्वमिति नोक्तदोष इति चेन्न, मण्यादिकालीन कारणाभावस्यापि तत्कालीन कार्याभावप्रयोजकतया कारणस्याप्युत्तेजकतापत्तेः / न च मण्यादिकालीनत्वेन विशेषितकार्यानुत्पादे कारणाभावः प्रयोजको न भवतीति वाच्यम् / किं तत्त्वेन विशेषिततत्प्रयोजकत्वं तव्याप्यत्वमुत तद्वयापकत्वम् ? न द्वितीयः / मण्युत्तेजकयोः सतोरपि कारणाभावेन तादृशकार्यानुत्पादे सत्यऽप्युत्तेजक भावाभावात् / न प्रथमः। मण्याद्यभावकाले उत्तेजकभावे सत्यपि मण्यादिकालीनकार्यानुत्पत्त्यदर्शनात् / न च तत्तन्मण्यादि.