SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 140 सटीकाद्वैतदीपिकायाम् सिद्धिः। न चैतदन्यथासिद्धिलक्षणमेव न भवतीति वाच्यम्, दण्डत्वादिसङ्ग्राहकत्वेन त्वदुक्तान्यथासिडिलक्षणस्याप्यभावप्रसङ्गात्। विशेषलक्षणाव्याप्तेरदूषकत्वपरिहारः ननु यस्य कार्यसम्बन्धित्वं कारणत्वमृतेऽपि निर्वहति सोऽन्यथासिद्ध एव भवति / दण्डत्वादेश्च तत्सम्बन्धित्वमन्यथापि भवतीति तत्सङ्ग्राहकं तल्लक्षणमिति चेत्, तहि विरोध्यभावत्वेन प्रतिबन्धकाभावय कार्यसम्बन्ध आवश्यक इति न कारणत्वं न हि सहनमपि कारणानि विरोधिनि सति कार्यमुत्पादयितुमीशते। न चैवं दण्डादेरप्यन्यथासिडिप्रसङ्गातदभावस्य कार्यविरोधित्वमज्ञात्वैव दण्डत्वेनान्वयव्यतिरेकग्रहसंभवात्, कार्यानुत्पादप्रसंगेन लक्षणान्तरायोगाच / एतेन कार्यानुत्पाद इत्यलमतिविस्तरेण / प्रतिबन्ध कामावस्याकारणत्वेऽनन्यथासिद्धान्वयव्यतिरेकविरोध इत्याशङ्कयानन्यथासिद्धत्वमसिद्धमित्याह-तेनेति / सामग्रीकालीनकार्यानुत्पादप्रयोजकाभावत्वेनेत्यर्थः / अन्यथासिद्धलक्षणानाक्रान्तत्वात्कथमेतस्यान्यथासिद्धत्वमित्याशय तल्लक्षणमप्यस्तीत्याह-प्रतियोगिन इति / ननु यद्गर्भावेव यस्यान्वयव्यतिरेकावन्यं प्रति पूर्ववत्तित्वे ज्ञात एवेत्यादिकमेव तल्लक्षणमित्यत आह-न चैतदिति / किमव्याप्तत्यादिदमलक्षणमुत वाद्यसम्मतत्वात् ? नोभयथापि / त्वदुक्तलक्षणानामप्यव्याप्तत्वान्ममासम्मतत्वाचालक्षणत्वप्रसङ्गादित्यभिप्रेत्याहदण्डत्वादीति / दण्डत्वाद्य कैकसलाहकत्वेनेत्यर्थः / ननु अन्यथासिद्धिसामान्यलक्षणाक्रान्तेषु विशेषलक्षणानामव्याप्तिन दोषायेति शङ्कते-ननु यस्येति / / कार्य सम्बन्धित्वं तन्नियतपूर्वक्षणवर्तित्वं तर्हि प्रतिबन्धकामावस्यापि त्वदुक्तसामान्य लक्षणाक्रान्तत्वात्तत्सग्राहकमपि लक्षणं युक्तमेवेत्याह--तर्हि विरोधीति / सामग्रीकालीनकार्यामावप्रयोजकाभावत्वेनेत्यर्थः / आवश्यकत्वमेव दर्शयति-न होति / तर्हि दण्डादेरपि कार्यविरोधिस्वाभावाभावत्वेनान्यथासिद्धिः स्यादिति चेन्न, दण्डाभावस्य सामग्रीकालीनकार्यविरोधित्वाभावात् / तदितरकालीनकार्यरोधित्वेऽपि तद्ग्रहं विना तर्कावतारेऽन्वयसहचारदशनेनापि दण्डादे:
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy