________________ प्रथमः परिच्छेदः 139 भिमता ये विशेषास्तदभावविशिष्ठमण्याचभावकूटत्वेन कारणत्वम् , तेषां प्रत्येकव्यभिचारेणाकारणत्वात् / मण्याद्यभावस्य प्रकारान्तरेणाकारणत्वम् / न च कार्यानुत्पादप्रयोजकाभावत्वेन प्रतिबन्धकाभावस्य कारणत्वम् अनो नान्योन्याश्रय इति वाच्यम, उत्तेजकस्यापि कारणत्वप्रसङ्गात् / तस्य कार्यानुत्पादप्रयोजकत्वस्य दुर्ग्रहत्वात् / तेन रूपेणान्यथासिद्धत्वाच / प्रतियोगिनः कार्यविरोधित्वे ज्ञात एव यदभावस्यान्वयम्यतिरेकग्रहस्तस्य विरोध्यभावत्वेनान्यथा - - गृहीतरूपेण व्यभिचारेऽपि गृहीतकारणत्वापरित्यागेन तदुभयाभावान्यान्यत्वविशिष्टाभावत्वेन तदपि संगृह्यते / एवमन्योत्तेजके सति तदभावोऽपि संगृह्यत इति न कश्चिद्दोष इति चेन्न, अनेकोत्तेजकाभावेऽनुगतरूपाभावेन कार्य च तत्तदुत्तेजकप्रयोज्येऽपि विशेषाभावेन च स्फुटब्यभिचारेण चोक्तसङमहायोगात् / इतरथा रासभमहिषादियाबदृष्टपदार्थान्यान्यत्वेन तेषामपि घट. कारणताप्रसङ्गात् / विस्तरस्तु सुन्दरराजीये द्रष्टव्यः।। उत्तेजकत्वग्रहं विनापि प्रकारान्तरेण मण्याद्यभावकारणताग्रहं दूषयतिन च कार्यति / ___उत्तेज कस्यापि कार्यानुत्पादप्रयोजकस्वाभाषाभावत्वेन कारणत्वापातादिति हेतुमाह-उत्तेजकस्यापीति / मण्यादिष्वनुगतधर्माभावेन कार्यानुत्पादप्रयोजकत्वमेव दुग्रह मित्याह-तस्येति / किञ्च कार्यानुत्पत्तिप्रयोजकत्वं तव्य प्यत्वमुत तद्व्यापकत्वम् / आद्येऽपि किं मण्यादेः स्वरूपेण व्याप्यत्वमुतोत्तेजकाभावविशिष्टत्वेन ? नाद्यः। मणौ सत्यपि सत्युत्तेजके कार्यानुत्पत्त्यदर्शनात् / न द्वितीयः / अभावकारणताग्रहात्पूर्वमुत्तेजकत्वस्यैव दुग्रहत्वात् / नापि प्रथमद्वितीयः। कारणाभावप्रयुक्तकार्यानुत्पाददशायां प्रतिबन्धकाभावेन व्यापकत्वायोगादिति भावः / ननु सिद्धान्तेऽपि सामग्रीकालीनकार्यानुत्पादप्रयोजकत्वमननुगतमण्यादेः कथं गृह्यत इति चेन्न / अत्र इत्तेजकाभावविशिष्टमण्यादेः कार्याभावप्रयोजकत्वं नाम तव्याप्यत्वम् / तच्चीत्तेजकाभावशिष्टाननुगतमणित्वाद्यवच्छेदेन गृह्यते वह्निव्याप्यत्वमिवानेकधूमत्वाद्यवच्छेदेन / उत्तेजकत्वं च सामग्रीकालीनकार्याभावव्याप्याभावप्रतियोगित्वमनुगतमेव / अत्र चोत्तेजकाभाषस्य तव्याप्यत्वमननुगतेनैव मण्याद्यकैकोपहिततत्तदभावत्वेनावच्छिद्यत इति न कश्चिद्दोष