________________ 138 सटीकाद्वैतदीपिकायाम् उत्तेजकलक्षणान्तरखण्डनम् एतेन कारणीभूताभावप्रयोजकविशेषणाभावत्वमित्याद्यपि प्रत्युक्तम् / विशेषणविशेष्यत्वस्यानियतत्वाच / न चोत्तेजकत्वेना परस्पराश्रयादिदोषप्रसङ्गात्यराभिमतमुत्तेजकलनणान्तरमपि निरस्तमित्याह-एतेनेति / कारणीभूताभावस्य प्रयोजक निरूपकं प्रतियोगीति यावत् / तत्र यद्विशेषणं तदभावत्वमुत्तेजकत्वमित्यर्थः / आदिपदेन (1) कारणान्यत्वे सति कार्याभावप्रयोजकाभावप्रतियोगित्वं (2) कारणाभावातिरिक्तकार्याभावप्रयोजकाभावप्रतियोगित्वं (3) प्रतिबन्धकाभावेतरसकलसाधनसमवधाने कार्याभावप्रयोजकाभावप्रतियोगित्वमुत्तेजकत्वमित्यादिलक्षणं सूचितम् / तत्र प्रथमलक्षणे किं यत्किञ्चित् कारणान्यत्वं विवक्षितमुत निखिलकारणान्यत्वम / आद्ये वह्निरप्युत्तेजकः स्यात् / द्वितीये प्रतिबन्धकाभावकारणताग्रहात् पूर्व निखिलकारणान्यत्वस्य गृहीतुमशक्यतया परस्पराश्रयात् / अत एव न द्वितीयं लक्षणम् / प्रतिबन्धकाभावकारणत्वग्रहं विना निखिलकारणाभावान्यत्वस्योत्तेजकाभावे ग्रहीतुम शक्यत्वात् / किश्च विशिष्टप्रतियोगिकस्य मण्याद्यमावलक्षणस्याभावो विशिष्टप्रतियोग्येव / विशिष्टं च तन्मते विशेषणविशेष्यतत्संबन्ध एवेति विशेषणीभूतस्योत्तेजकाभावस्यापि कारणाभावात्मत्वान्न तदतिरिक्तत्वम् / तथा च लक्षणाभावः / तृतीयलक्षणे चक्रकापत्तिदुर्निवारेति द्रष्टव्यम् / किञ्च विशेषणविशेष्यभावस्यानियतत्वान्मण्यादेरप्यु त्तेजकाभावं प्रति विशेषणत्वसम्भवात्तदभावोऽप्युत्तेजकः स्यादित्यभिप्रेत्याहविशेषणेति / ननु यस्य मण्यार्यावन्त उोजकत्वेनाभिमता विशेषाः सन्ति, तावदभावान्यान्यविशिष्टतदभावत्वेन कारणता गृह्यते / तथा च नान्योन्याश्रयादिरित्यत आह-न चोत्तेजकेति / उत्तेजकाभावेष्वन्यान्यत्वस्यानुगतस्यैकस्याभावादभावेऽभावान्तरानभ्युपगमात्तत्तत्स्वरूपमेव तदन्यान्यत्वम् / तथा च तत्तदभाव. विशिष्टमण्याद्यभावस्य व्यभिचारेण कारणताग्रहावोग इत्याह--तेषामिति / किश्चैकैकस्यापि मण्यादेरुत्तेजकानामनन्तत्वेन दुर्घहत्वात्तत्तदभावान्यान्यत्वमपि दुओहमेव / ननु यावदुपस्थितोत्तेजकाभावान्यान्यत्वमनुगतं सुग्रहमिति चेन्न, उपस्थितोत्तेजकाभाववत्तया निश्चितस्थलेऽप्यन्योत्तेजकसमवधाने कार्यदर्शनादेकोत्तेजकसमवधानऽपि प्रतिबन्धकान्तरे सति कार्यादर्शनाच्च व्यभिचारशकाया दुष्परिहरत्वेनोक्तरूपाभावविशिष्टमण्याद्यभावकारणताया दुहत्वात् / नन्वेकप्रतिबन्धकप्रतिबन्धस्थल एकोत्तेजकभावाभावाभ्यां कार्यसस्वासत्त्वदर्शनात्तदभावविशिष्टमण्याघभावः कारणमिति गृह्यते / पुनरुत्तेजकान्तरेण कार्यस्थले पूर्व