________________ प्रथमः परिच्छेदः 137 तदभावात् / तस्यास्तदजन्यत्वाच्च / किन्तु सामग्रयां सत्यां कार्यानुत्पादप्रयोजकाभावप्रतियोगित्वं यदभावविशिष्टत्वेन प्रतिवन्ध कत्वं तत्प्रतियोगित्वं वा 1 आये प्रतिबन्धकाभावस्याकारण त्वम् / सामग्रीपदानुपादाने च सहकारिमात्रसाधारण्यम् / . द्वितीये-- कारणत्वग्रहे जाते प्रतिबन्धकता ग्रहः / तत उत्तेजकत्वधीस्ततः कारणताग्रहः // इत्येवं चक्रकापातो वज्रलेपायते तव // दिशक्तेस्तत्सहभावित्वान्नोत्तेजकस्य तदनुकूलत्वमित्याह--तस्या इति / एतेन कार्याभावव्याप्याभावप्रतियोगित्वमित्याद्यत्तंजकलक्षणं प्रत्युक्तम् / कार्यमात्रविवक्षायां व्यभिचारात् प्रतिबद्धकार्यविवक्षायां परस्पराश्रयादिदोषप्रसङ्गादिति द्रष्टव्यम् / ____ननु सिद्धान्तेऽपि उत्तेजकाभावविशिष्टमणित्वादिरूपेण सामग्रीकालीनकार्यानुत्पादप्रयोजकत्वं वाच्यम् / तथा च तव मते यदुत्तेजकं तदेव ममापीत्याशङ्कय स्वाभिमतं लक्षणं दर्शयति परस्यानिष्टं दर्शयितुम्--किन्तु सामग्रथामिति / सामग्रयनन्तरकालीनो यः कार्यानुत्पादः, तद्वयतिरेक पाप्यव्यतिरेक प्रतियोगी योऽभावः तत्प्रतियोगित्वमुत्तेजकत्वमित्यर्थः। तादृशव्यतिरेकप्रतियोगित्वमुत्तेजका. भावानां तत्तदभावत्वेनेति नानुगतरूपापेक्षा / न चैकोत्तेजकसंयोगेऽपि प्रतिबन्धकान्तरे सति कार्यादर्शनान्न कार्यव्याप्याभावप्रतियोगित्वं तदुत्तेजकाभावस्येति तत्प्रतियोगिनस्तस्योत्तेजकत्वं तत्र न स्यादिति वाच्यम ।क्वचित् कदाचित् किश्चिदुत्तेजकमित्यङ्गीकारेण तादृशस्थले तस्योत्तेजकत्वाभावस्येष्टत्त्वात् / अत्र चाभावपदेनोक्तकार्यानुसादप्रयोजकप्रतिबन्धकप्रतियोगिभूततदभावेऽतिव्याप्तिनिरस्ता। लक्षणान्तरमाह--यदभावेति / मण्यादेः कार्यानुत्पादकता यदभावविशिष्टत्वप्रयुक्ता तदभावप्रतियोगित्वमुत्तेजकत्वमित्यर्थः। प्रथमलक्षणाङ्गीकारे प्रतिबन्धकाभावकारणताहानिः, तत्कारणत्वे कार्यानुत्पादस्य सामग्रयनन्तरकालीनत्वानुपपत्तिरित्याह--आद्य इति / तर्हि सत्यां सामग्रयामिति विशेषणं त्यज्यत इत्याशङ्कय तदभावे कारणमात्रेऽतिव्याप्तिरित्याह-सामग्रीति / द्वितीयलक्षणाङ्गीकारे तवाभावकारणताग्रहे कारणीभूताभावप्रतियोगितया मण्यादे प्रतिबन्धकत्वग्रहः तद्ग्रहे च तद्विशेषणीभूताभावप्रतियोगितयोत्तेजकत्वप्रहः। तद्ग्रहे च उत्तेजकाभावविशिष्टमण्याद्यभावकारणताग्रह इति चक्रकापत्तिरित्याह-साधश्लोकेनकारणत्वग्रह इति / 18