________________ 136 सटीकाद्वैतदीपिकायाम् सत्त्वात् / उक्तबाधकेन कारणत्वानुपपत्तेः / नच कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वम् / प्रतिबन्धकाभावत्वेन तदभावस्य कारणत्वेऽन्योन्याश्रयात् / न च मण्यादिविशेषाभाव. कूटत्वेन कारणत्वम् / उत्तेजकाभावविशिष्टमण्याद्य भावकूटत्वेन हि कारणवं केवलमण्यायभावस्य व्यभिचारात् // उत्तेजकत्वलक्षणखण्डनम् तत्र चोत्तेजकत्वं न कार्यानुकूलत्वम् / दाह्यसंयोगादेरपि तथात्वात् / व्यभिचारिणस्तस्य मण्याद्यभावकारणताग्रहं विनाsनुकूलत्वस्याशक्यग्रहत्वाच्च / नापि शक्त यनुकूलत्वम् / त्वन्मते प्रतिबन्धकलक्षणानुपपत्तिरित्याह--उक्तति / अस्तु तमुभावकार तानुकूलमेव प्रतिवन्धकलक्षणमित्यत आह--न चेति / तत्र किं मणिमन्त्रौषधाद्यभावस्य प्रतिबन्धकाभावत्वेन कारणताग्रह उत मण्यारभावसमुदायत्वेन / नाद्यः, प्रतियोगिनः प्रतिबन्धकत्व सिद्धौ तदभावत्वेनाभावकारणताग्रहः तद्ग्रहे च कारणीभूताभावप्रतियोगितया मण्यादेः प्रतिबन्धकत्वग्रह इति परस्पराश्रयादित्याहप्रतिबन्धकाभावत्वेनेति / द्वितीयमपवदति--न चेति / उत्तेजकस्थले मण्याद्यभावकूटाभावे ऽपि दाहकार्यदर्शनान्न तेन रूपेण कारणता किन्तु उत्तेजकाभावशिष्टमण्यादेरभावत्वेन, तथा चोत्तजकस्थलेऽपि विशेषणाभावप्रयुक्तविशिष्टाभावसत्त्वान्न व्यभिचार इति पूर्ववादिनं शिक्षयति--उत्तेजकेति // अस्त्वेवमेवेति चेन्न / प्रतिबन्धकाभावकारणवादिनोत्तेजकस्यैव दुर्निरूपस्वादित्याह-तत्र चेति / तथात्वादिति / तथा च प्रतिबन्धके सत्यपि कार्य स्यादित्यर्थः। उत्तेजकाभावविशिष्टस्यैव प्रतिबन्धकत्वात्प्रतिबन्धके सति कार्यानुकूलत्वमुत्तेजकत्वमिति लक्षणमसम्भवीति भावः। दूषणान्तरमाह-व्यभिचारिण इति / उत्तेजकानामनन्तत्वेनानुगतरूपाभावात्प्रत्येकं चानुकूलत्वस्य व्यभिचारेणाशक्यग्रहत्वादनुगत. रूपसंभवेऽपि कार्यमात्रे व्यभिचारात् प्रतिबन्धकप्रयुक्तानुत्पत्तिप्रतियोगिकार्यत्वावच्छेदेनानुकूलता ग्राह्या, तथा च प्रतिबन्धकत्वग्रहे उत्तेजकत्वग्रहस्तग्रहे च तदभावविशिष्टमण्याद्यभावकारणताग्रहपुरःसर प्रतिबन्धकत्वग्रह इति परस्पराश्रयाच्चेत्यर्थः। उत्तेजकलक्षणान्तरं दूषयति -- नापीति / प्रतिबन्धकाभावाक -रणत्वमते शक्तरेवाभावादित्याह-- त्वन्मत इति / शक्तिवादिमतेऽपि वह्नय