________________ प्रथमः परिच्छेदः 135 सत्वादिति वाच्यम् / प्रागभाववादिनोऽपि कस्यचित्तदापत्तः। उत्पन्नघटस्य च पुनरुत्पत्यापादनमसङ्गतम् ! दण्डादेरुत्पन्नघटा हेतुत्वात् / तैर्विनाप्युत्पन्नघटस्याग्रिमक्षणसत्त्वात्तेन रूपेणातज्जन्यत्वात् / न च तत्सामग्रत्युत्तरक्षणस्य तदुत्पत्तिकालत्वनियमात् घटोत्पत्यनन्तरकालीनोऽपि घट उत्पद्यतेति वाच्यम् / उत्पन्नस्यैव प्रतिबन्धकत्वात् / न चैवं प्रागभावस्य कारणत्वप्रसङ्गः। सामग्रोकालीनकार्यानुत्पादप्रयोजकत्वं हि प्रतिबन्धकत्वं, ततो न तदभावः कारणं, अन्यथानुत्पादस्य सामग्रीकालीनत्वायोगात् / न चैवमन्वयव्यतिरेकविरोधः / तयोस्तद्गताऽनुकूलतामात्रविषयत्वात् // अनुकूलत्वं च कारणत्वादन्यदेव / अवच्छेदकस्यापि तत् तन्मतेऽपि समत्वादित्याह-न चैवमुत्पन्नस्येति / प्रतियोग्येव प्रागभावनिवृत्तिरिति मतेऽपि दण्डादेरुत्पन्नघटं प्रति पूर्वक्षणसत्त्वनियमाभावात्कारणत्वमेव नास्ति, तथा चाकारणात्कार्यापादनमसङ्गतमित्याह--उत्पन्नेति / ननु सामग्रयनन्तरक्षणे कार्योत्पत्तिनियमादुत्पन्नरूपेणाकार्यत्वेऽपि घटस्वरूपकार्यस्य पुनरुत्पत्तिः स्यादिति चेन्न / उत्पन्नघटेन प्रतिबद्धत्वादित्याह--न च तत्सामग्रीति / तर्हि प्रागभावस्य प्रतिबन्धकाभावतया कारणत्व सिद्धिरित्यत आह--न चैवमिति / उत्तेजकाभावविशिष्टस्य हि प्रतिबन्धकस्याभावः कार्योपयोगी प्रागभावश्च न तद्विशिष्टप्रतियोगिक इति न तस्य प्रतिबन्धकाभावतयापि कारणत्वमिति स्पष्टदोषे सत्येव वस्तुवृत्तं प्रदर्शयन् प्रतिबन्धकलक्षणपरीक्षयाऽपि तदभावस्याकारणत्वमिति वक्त व्यवहारानुरूपमबाधितं लक्षणमाह- सामग्रीकालीनेति / सामग्रीकालीनो यः कार्यानुत्पादः तत्प्रयोजकत्वं तद्व्याप्यत्वं प्रतिबन्धकलक्षणम् / इदं च प्रतिबन्धकाभावस्य कारणत्वेऽनुपपन्नं तद्घटितसामग्रयां सत्यां कार्यानुत्पादायोगेन तत्प्रयोजकत्वस्याप्यनुपपत्तेरित्याह-अन्यथेति / प्रतिबन्धकामावस्याकारणत्वे तस्य कार्य अन्वयव्यतिरेकावगतिविरोध इत्यत ताह--न चैवमिति / / अनुकूलत्वं नाम कारणत्वमेवेति न विवाद इत्यत आह-अनुकूलत्वं चेति / अन्वयव्यतिरेकाम्यां तस्य काणत्वमेव किं न स्यादित्याशङ्कय तथात्वे