SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 134 सटीकाद्वैतदीपिकायाम् न च व्याप्त्यनुभव एव संस्कारद्वाराऽनुमितौ हेतुरिति वाच्यम् / तस्यापि व्याप्तिज्ञ नत्वेन कारणत्वात् / साध्याविषयत्वाच्च / अभावत्वप्रतियोगित्वविशिष्टज्ञाने व्यभिचाराच्च ।तस्य सविकल्पकैकवेयत्वात् / अनुमितिदृष्टान्तेन विशेष्यज्ञानजन्यत्वस्याप्यनुमातुं शक्यत्वाच्च / अस्तु तथा निर्विकल्पक उभयोरपि प्रतीतेरिति चेन्न। सविकल्पकैकवेद्याभावादेरप्रत्ययप्रसङ्गात् / तस्मान्न विशेषणज्ञानं विशिष्टज्ञाने हेतुरिति न तभेदात् सामग्रीभेदः // प्रागभावभेदादपि न सामग्रीभेदः नापि प्रागभावभेदात् / प्रागभावस्य प्रतियोग्यजनकत्वात् / न चैवमुत्पन्नस्य घटस्य पुनरुपत्त्यापत्तिः तडेतोर्दण्डादेः ननु संस्कारस्य द्वारत्वाद्वयाप्तिग्रहो ऽनुमितिहेतुः स्यात्, तथा च तदेव विशेषणज्ञानमिति मदिष्टसिद्धिरिति चेन्न। व्याप्तिग्रहस्य हेतुत्वेऽपि न विशेषणज्ञानत्वेन हेतुता / अगृहीतव्याप्तिकस्य प्रकारान्तरेण विशेषणम गच्छतः सत्यपि लिङ्गदर्शने ऽनुमित्यनुदयात् / किन्तु व्याप्तिज्ञानत्वेनानुमितिं प्रत्येव हेतुता तथा च न तवेष्टसिद्धिरित्याह--न च व्याप्त्यनुभव इत्यादिना / किश्च सामान्यप्रत्त्यासनिरसिष्यमाणत्वात्कतिपयव्यक्तिविषयव्याप्तिग्रहस्य पर्वतविशेषणवह्निविषयत्वमेव नास्तीत्याह-साध्येति / परैरपि सप्रतियोगिकाभावत्वादिविषयनिर्विकल्पकानङ्गीकारात्तद्विशिष्टज्ञानेषु हेतोयभिचार इत्याह--अभावत्वेति / किकच जन्यविशिष्टज्ञानं जन्यविशेष्यज्ञानजन्यं विशिष्टज्ञानत्वात् पक्षज्ञानजन्यानुमितिवदित्यपि प्रसज्येतेत्याह-अनुमितीति / प्रत्यक्षविशिष्ट ज्ञानस्य विशेष्यज्ञानजन्यत्वमपीष्ट मिति चोदयति-अस्त्विति / निर्विकल्पकाविषयेऽपि विशिष्टप्रत्यक्षदर्शनान्न तस्य हेतुतेत्याह-न सविकल्पकेति / विशेषणज्ञानस्य कारणत्वाभावान्न तस्य भेदात्सामग्रीभेद इत्युपसंहरति-तस्मादिति / / एवं प्रागभावस्याकारणत्वान्न तद्भेदादपि सामग्रीभेद इत्याह--नापीति / प्रागभावस्याकारणत्वे प्रतियोग्युत्पत्तिसमये सामग्रीसत्त्वेनोत्पन्नस्य पुनरुत्पत्ति पादनीया। तत्कारणत्वपक्षेऽपि प्रतियोगिनः प्रागभावनिवर्तकत्ववादिनां मते प्रतियोग्युत्पत्तिकाले प्रागभावस्यापि सत्त्वात्पुनरुत्पत्तिप्रसङ्गस्य
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy