________________ प्रथमः परिच्छेदः सामग्रयाः कार्यजनकत्वनियमात्। न चैका साग्रयेकमेव कार्यमुत्पादयतीति वाच्यम् / कार्याभावस्य कारणाभावप्रयोज्यत्वनिय. मात्। प्रागभावः कार्यसमयावर्ती कथं हेतुरिति चेन्न / पूर्ववर्तित्वेन हेतुत्वात् / कार्यसमयवर्तित्वेन गौरवेणाकारणत्वादिति / उच्यते। विशिष्टज्ञाने न विशेषणज्ञानं हेतुः मानाभावात् / अथ जन्यविशिष्टप्रत्यक्षं जन्यविशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वात् अनुमितिवदिति चेन्न / विशिष्टप्रत्यक्षस्य सर्वसम्प्रतिपन्नविशेष्यसन्निकर्षादिजन्यत्वेनाप्रयोजकत्वात् / न च लाघवेनानुमित्या. दो विशिष्टज्ञानत्वेन विशेषणज्ञानजन्यत्वसिद्धः प्रत्यक्षेऽपि तथात्वमिति वाच्यम् / अनुमित्यादेरपि व्याप्तिसंस्कारसहकृतलिङ्गज्ञानस्य जनकत्वेन विशेषणज्ञानस्याजनकत्वात् / दात्सामग्रीभेदः स्वस्वप्रागभावभेदाद्वा इत्यर्थः। विशेषणज्ञानस्य कारणत्वमेव नास्ति कुतस्तद्भेदात्सामग्रीभेद इति चेन्न। अनुमित्यादौ व्याप्त्यादिज्ञानस्य विशेषणविषयस्य कारणत्वेन क्लृप्तत्वादित्याह--न च विशेषणेति / ननु तत्र परोक्षज्ञानत्वावच्छेदेन विशेषणज्ञानजन्यत्वावधारणान्न प्रत्यक्षधारायां तत्कारणमित्यत आह --विशिष्टेति / ननु प्रागभावस्य कुत्राप्यहेतुत्वात् ज्ञाने ऽपि न हेतुतेति नेत्याह--न चेति / प्रागभावस्याकारणत्वे घटोत्पत्तिसमयेऽपि तद्वयतिरिक्तकारणवगस्य सत्त्वात् तदनन्तरमपि उत्पत्तिः स्यात् सामग्रयाः स्वानन्तरक्षणे कार्यजनकत्व नियमादित्यर्थः / सामग्रीस्वाभाव्यान्न पुनरुत्पत्तिरिति शङ्कित्वा सामग्रयाः कारणात्मकत्वात्कारणानां च क्रमिकानेककार्यकरत्वदर्शनादुक्तस्वभावाभावात्कारणाभावादेव कार्योत्पत्त्यभावो वक्तव्य इत्याह--न चैकेति / ननु प्रागभावस्य तद्वयापारस्य वा कार्यसमये ऽभावान्न तस्य हेतुतेति चोदयति--प्रागभाव इति / कार्यसमयावर्तिनोऽपि कारणलक्षणाक्रान्तत्वाद्धतुतेत्याह--न पूर्वेति / तत्र तावद्विशेषणज्ञानभेदात् सामग्रीभेद इत्येतद् दूषयति--उच्यत इति / मानाभावोऽसिद्ध इति चोदयति----अथेति / पक्षहेत्वोर्जन्यपदमीश्वरज्ञाने वाधव्यभिचारवा. रणाय। साध्ये च तज्जन्यत्वेनार्थान्तरतावारणाय / विशिष्टज्ञानस्य तेन विनाप्युपपत्तरप्रयोजको हेतुरित्याह--न विशिष्टेति / विशिष्टप्रत्यक्षस्य विशेषणज्ञानजन्य. स्वाभावे लाघवानुगृहीतविशेषणज्ञानकारणताग्राहकमानभङ्ग इत्याशङ्कय तदेवासिद्धमित्यस्ह--न चेति / अनुमित्यादेरिति कर्मणिषष्ठी। व्याप्तिग्रहणजनितोबुद्धसंस्कारसहकृपलिङ्गदर्शनादेवानुमिति सम्भवे मध्ये व्याप्तिस्मृतिन कल्पनीयेत्यर्थः /