________________ 132 सटोकाद्वैतदीपिकायाम् परिमाणस्य निरवयवत्वानिष्क्रियत्वाच तदसम्भवादणुपरिमाणत्वे जगदान्ध्यप्रसङ्गाच्च / मध्यमपरिमाणत्वं चैवं नित्यमित्यभ्युपगमव्याघातात् / कथं ताहमुपलभ इति तस्याहङ्काराश्रयत्वानुभव इति चेन्न / स्वतन्त्रोपलब्धेरेव वृत्तिप्रतिविम्बिततया तदाश्रयत्वानुभवात् / यच्च गुणत्वसाधकानुमानं तदसिद्धमुपलब्धेनित्यत्वादनुव्यवसायस्य निरस्तत्वाच्च // युक्त्यन्तरेण नव्यवसायनिर।सः इतोऽपि ज्ञानं नानुव्यवसायगम्यम् / ज्ञानभेदे हि मनः संयोगभेद एव प्रयोजक धारावहनबुडो तथा क्लप्तत्वात् / ननु धारावहनवुडौ सामग्रीभेदा दस्त दश्च विशेषणज्ञानप्रागभावभंदात् / न च विशेषणज्ञानं विशिष्टज्ञाने न कारणमिति वाच्यम् / अनुमित्यादौ विशेषणज्ञानस्य हेतुत्वात् विशिष्टज्ञानमात्रस्य लाघवात्तज्जन्यत्वावधारणात् / न च प्रागभावो न हेतुरिति गच्यम्, तथा सति दण्डादौ सत्युत्पन्नस्य पुनरुत्पत्यापत्तेः, इति / अहमर्थधर्मस्य तस्य विषयसम्बन्धाभावादित्यथः। तृतीयं दूपति-- मध्यमेति / अनुभवत्य स्वातन्त्र्ये कथ पारतव्यप्रत्यय इति चोदयति--कथं तीति / स्थलाशितजलप्रतिविम्बितस्य चन्द्रस्य स्थलाश्रितत्वप्रतीति वदहकारधर्मवृत्तिप्रतिबिम्बितानुभवस्याहमर्थ सम्बन्धितया प्रतीतिः स्वतन्त्रस्य प्युपपद्यत इत्याह-न स्वतन्त्रोपलब्धेरिति / अनित्यत्वे सत्येकेन्द्रियग्राह्यत्वादिति हेतुः सर्वथाप्यसिद्ध इत्याह --यच्चति / प्रसङ्गागतानुव्यवसाय निराकरणे युक्तयन्तरं समुच्चिनोत्यन्यदपि पराभिमतं दूषयितुम् -इतो ऽपीति / व्यवसायजनकमनः सन्निकर्षादन्य एव तत्संयोगो ऽनुव्यवसायजनको बक्तव्यः तथा च तत्काले व्यवसायाभावादनुव्यवसायो ऽनुपपन्न इति वक्त संयोगभेदस्यावश्यकतामाह- ज्ञानभेदे हीति / धारायामपि मनः संयोगभेदो न ज्ञानभेदप्रयोजक इति चोदयति--नन्विति / सर्वत्र सामग्रीभेदस्यैव कार्यभेदप्रयोजकत्वादत्रापि स एव प्रयोजक इत्यर्थः। ननु धारायां मनःसंयोगभेदादेव सामग्री, भेद इति नेत्याह-तद्भेदश्चेति / उत्तरोत्तरज्ञानानामन्यान्यविशेषणज्ञातजन्यत्वात् तद्भ