________________ प्रथमः परिच्छेदः 131 धिष्ठानमस्तु जडाजडयोर्वास्तवतादात्म्यानुपपत्तेः। कल्पिततादात्म्यस्यान्यतरकल्पनां विनाऽयोगात। चैतन्यस्य कल्पितत्वे जडतया जगदान्ध्यप्रसङ्गात् / तस्याहङ्कारवृत्तित्वायोगात्। एतेन मा भूदस्मन्मते नित्यसंविदोऽहडारधर्मत्वम्, अहमर्थसमवेतज्ञानाति. रिक्त नित्यसंविदभावात् / भवन्मते तु साऽहंकारधर्मोऽस्त्वितिप्रत्युक्तम् / संविदहङ्कारतादात्म्यस्य तत्राहङ्कारारोपं विनाऽ. सम्भवात् // चिरन्तनदासमतखण्डनम् यचान केनचिदुक्तं नित्यमेकमेवाहभर्थसमवेतं ज्ञानं वृद्धिहासाभ्यां विषयसंयोगविभागवत् सविषयमुत्पत्तिविनाशवच्चानुभूयते / अत एव जानामीत्यनुभवोऽपि युज्यत इति तन्न / ज्ञानस्य गुणत्वे सङ्कोचविकासयोरसम्भवात् / द्रव्यत्वे चानन्त प्रमाणं नास्तीत्याह-अहमर्थेति / तस्याहमर्थधर्मत्वेऽपि किं गुणत्वमुत जातित्वम् ? नाद्यः गुणवैधय॑स्योक्तत्वादित्याह-बाधकस्येति / द्वितीयं दूषयति--न चेति / जातित्वेऽपि बाधकसत्त्वादिति हेतुमाह-तस्या इति / किश्च समवायस्य निरसिष्यमाणत्वादहमर्थसंविदोस्तादात्म्यमेव सम्बन्धः स्यात् , तथा च तयोर्वास्तवतादात्म्यानुपपत्तेः संविधवाहङ्कारोऽध्यस्त इत्याह-अहमतिरिक्तति / तर्हि दूरस्थवनस्पत्योरिव स्वतन्त्रस्यैवाहङ्कारस्य तत्तादात्म्यं कल्प्यतामित्याशङ्क. थाह-कल्पितेति / वनस्पत्योः पृथक स्वातन्त्र्येणोपलम्भात्तादात्म्यमात्रं कल्पितमिह तूभयोः पृथक् सत्त्वे मानाभावादन्यतरकल्पनावश्यकीत्यर्थः / तर्हि संविदेवाहङ्कारे कल्पितास्त्वित्यत आह-चैतन्यस्येति / एतेनेति / स्पष्टार्थः / / अत्र चिरन्तनदासेनाहमर्थधर्मस्यैवानुभवस्य नित्यत्वमेकत्वं चाभ्युपेत्य प्रतिकर्मव्यवस्थाकारणमुपयोगश्च दर्शितस्तन्मतमनुवदति दूषयितुम्---यच्चात्रेति विकल्पासहत्वान्नैतदपि साध्वित्याह-तन्नेति / किं तन्मते ज्ञानस्य गुणत्वमुत द्रव्यत्वम् ? आधे निरवयवत्वात्तस्य सङ्कोचादिर्न सम्भवतीत्याह-ज्ञानस्येति / द्वितीयेऽपि किमनन्तपरिमाणमुताणुपरिमाणं किं वा मध्यमपरिमाणम् ? आये निरवयवत्वाद्वद्धिह्रासायोगः, निष्क्रियत्वाद्विषयसंयोगाद्ययोग इत्याहद्रव्यत्व इति / द्वितीये सहोचाद्ययोगस्तदवस्थः। दूषणान्तरमाह-अणपरिमाणत्व