________________ 130 सटीकाद्वैतदीपिकायाम् शब्दवदविरोधात् / न चैवमपि ज्ञानद्वयस्य स्थितिरनुपपन्ना तन्नियमस्य जन्यज्ञानविषयत्वादिति चेत् / अनुभवगुणत्वदूषणम् उच्यते / निरूपित तावत्सकलसंविदामेकत्वं नित्यत्वं च / तत्र यद्यभिन्ना देवदत्तयज्ञदत्तादिसंविदहमर्थेषु समवायेन तादात्म्येन वा वर्तेत तदा गुणो न स्यात् / नित्यत्वे सत्यनेकसमवायात्। न चैकस्मिन्नहमर्थ एव संविदर्तत इति वाच्यम् / जीवान्तरस्य व्यवहाराभावप्रसङ्गात्। अहङ्काराश्रयज्ञानस्योत्पत्तिविनाशानुभवाच्च / नन्वहङ्कारे नित्यानित्यज्ञानाङ्गीकारान्नानुभवविरोध इति चेन्न। अहमर्थसमवेतनित्यानुभवे प्रमाणाभावात् / बाधकस्योक्तस्वाच / न च संविदो जातित्वमेवास्तु तथाप्यहमतिरिक्तात्मा सिद्धेरिति वाच्यम् / तस्या आत्मत्वेन तुल्यव्यक्तिकत्वात् / अहमातिरिक्तनित्याद्वितीयसंविदभ्युपगमे सैवाहमनुभवगोचराद्य. यस्यानुभवस्याहङ्कारसम्बन्धो ग्राह्यः स एव तद्ग्राहक उतानुभवान्तरमिति किं शब्दार्थः / आद्यं दूषयति-न तावदिति / स्वसम्बन्धाविषयत्वादिति / स्वविशेषितसम्बन्धाविषयत्वादित्यर्थः। द्वितीये स्वप्रकाशत्वानुपपत्तिरित्याह-नापीति / आद्यं पक्षमादाय परिहरति-नेति / विशिष्टज्ञाने विशेषणादेविषयत्वेन भाननियमे बाधकमाह-अन्यथेति / तयहमनुभवामीति विशिष्टज्ञाने न कोऽपि विषय इत्याशवय जडांशस्य विषयत्वमित्याह- ततश्चेतेि / संविदो ऽहङ्कारधर्मत्वे तत्र कादाचित्कज्ञानानुपपत्तिरित्याशङ्कय विभुगुणत्वान्नेयमनुपपत्तिरिति शङ्कितं परिहरतिन चैवमिति / एकज्ञानवति ज्ञानान्तरोत्पत्तावपि स्थितिरनुपपन्नेत्याशङ्कथाहन चैवमपीति / / शङ्कितमनुभवगुणत्वं दूषयितुमुक्तमनुस्मारयति-निरूपितं तावदिति / नित्यस्यैव स्यानुभवस्य बह्वहमर्थधर्मत्वे सामान्यलक्षणवत्त्वाद्गुणत्वक्षतिरित्याह --तत्र यदीति / ईश्वरज्ञानवदेकत्रव वतेतामित्याशङ्कयाह-न चैकस्मिन्निति / नित्यानुभवस्याहङ्कारधर्मत्वमप्यनुपपन्नमित्याह-अहङ्कारेति / उत्पत्त्याद्यनुभवस्य वृत्तिविषयत्वाद्वयतिरिक्तनित्यानुभवोऽपि तत्र सम्भवतीति चोदयति नन्वहङ्कार इति / अहमुपलभ इत्याद्यनुमवस्यानित्यज्ञानविषयत्वान्नित्यानुभवस्याहमर्थधर्मत्वे