________________ प्रथमः परिच्छेदः 129 नापि बुद्ध्यादिकं तद्गुणः। तस्याहमनुभवगोचरधर्मत्वात / संविदस्तवमते ऽपि निर्गुणत्वात्। क्रियात्वे चानित्यत्वादिप्रसगात / अनेकसमवायाभावेनासामान्यात्मवात / : त्यक्षत्वेनाविशेषत्वादिति // गुणत्वे बाधकपरिहारौ नन्वहङ्कारसंविदोः सम्बन्धः केन गृह्यताम् / न तावत्स्वेनैव, स्वस्य स्वाविषयत्वेन स्वसम्बन्धाविषयत्वात् / नाप्यन्येन / स्वप्रकाशसंविदो ज्ञानान्तरागोचरत्वादिति चेन्न। विशिष्टज्ञाने हि सम्बन्धिद्वयं सम्बन्धश्च प्रकाशत इति नियमो न तु विषयतया प्रकाशत इति / अन्यथा चैतन्यान्तःकरणतादात्म्यस्याप्यप्रकाश. प्रसङ्गात् / ततश्चाहङ्कारस्तस्य संवित्सम्बन्धश्च संविद्विषयतया प्रकाशते / संविच्च स्वयमेव प्रकाशते। न चैवमेकज्ञानवति ज्ञानान्तरं न स्यात् एकरुपववति रूपान्तरमिवेति वाच्यम् / रित्यत आह - तदाश्रयवृत्तेरिति / स्मृतिजनकसंस्कारस्यार्थप्रकाशाधीनत्वावृत्तश्चे. च्छादिवजडतया संस्कारानाधायकत्वान्न तत एव स्मृत्युपपत्तिरित्यर्थः / तटहङ्काराश्रिता स्मृतिस्तदनाश्रितानुभवाद्भवस्वित्यत आह- अन्यानुभवादिति / किञ्च सिद्धान्तेऽपि द्रव्याद्यनन्तर्भावादनुभवस्य गुणत्वं वक्तव्यमित्याह -- परिशेषाच्चेति / विशेषगुणाभावेऽपि सामान्यगुणवत्वं शङ्कते--संख्यादीति / रूपादाविव संख्यादिव्यवहारस्यान्यथापि सम्भवान्नानुभवे तदस्तीत्याह-न तत्रेति / प्रत्यक्षस्यानुभवस्य द्रव्यत्वे विशेषगुणेनापि भवितव्यं स च नास्तीत्य भिप्रत्याहप्रत्यक्षेति / तर्हि वृत्तिज्ञानादिकमेव तद्विशेषगुण इत्यत आह-नापि बुद्धयादीत / गुणवत्त्वं सिद्धान्तविरुद्धमपीत्याह-संविद इति / कमण्यप्यनन्तर्भाव माह ... क्रियात्वे चेति / परमते आत्मत्वेन तुल्यव्यक्तित्वात् सिद्धान्ते आश्रय भेदाभावाच्च न सामान्य मित्याह-अनेकसमवायेति / आश्रयभेदाभावान्न समवायो ऽपि / अनुभवस्य विशेषत्वं निराकरोति-प्रत्यक्षत्वेनेति / तस्मात्पारिध्यादनुभवो गुण इति इति शब्दार्थः / / गुणत्वे ऽपि बाधकं शङ्कते-नन्विति / 17