________________ 128 सटीकाद्वैतदीपिकायाम् प्रयोजकत्वात् / अन्यथाऽऽकाशान्यत्वादेरप्यनाकाशत्वादावप्रयोजकत्वापातादिति // अनुभवस्वरूपवि चारः ___स चानुभवो न गुणः / कस्यचिद्गुणिनो ऽनिरूपणात् / जानामीत्यहङ्काराश्रयत्वप्रतीतेश्च वृत्तिविषयत्वात्। स्यादेतत् / अनुभव उपलब्धिरिति पर्यायः। उपलब्धिश्च न वृत्तिरिति तवाभिमतम् / सा चाहङ्काराश्रयाऽनुभूयते अहमुपलभे ऽनुभवामीति प्रतीतेः। किञ्च संविद्गुणः अनित्यत्वे सत्येकेन्द्रियग्राह्यत्वात् / गुणश्च गुण्याश्रयः रूपवत्। गुणी च परिशेषादहकार एव / अहङ्कारस्य संविदनाश्रयत्वे प्रतिसन्धातृत्वप्रवृत्त्यायनुपपत्तेः तदाअयवृत्तेराप्रकाशकत्वात् / अन्यानुभवादन्यस्य प्रतिसन्धाने प्रवृत्ती वाऽतिप्रसङ्गात् / परिशेषाच्च संविद्गुणः। तथा हि न सा द्रव्यम् / तद्व्यवस्थापकगुणाभावात् / संख्यादिपञ्चकमस्तीति चेन्न / तत्र प्रमाणाभावात् / प्रत्यक्षद्रव्यस्य विशेषगुणवश्वव्याप्तेश्व। सत्वात् / संविभेदवत्त्वेपि संवित्त्वं किं न स्यादिप्यत आह-न चेति / यावसंविदन्यत्वापेक्षया संविदन्यत्वस्यैवासंवित्त्वे प्रयोजकत्वात् / संविदः संविद्भेदवत्त्वे ऽसंवित्त्वमेव स्यादित्या--लाघवेनेति / तहि घटत्वानधिकरणत्वे घटान्यत्वमेव प्रयोजकमिति द्वितीयो घटो न स्यादिति चेन्न / घटभेदस्य प्रामाणिकत्वेन तत्र लाघवानवतारादित्याह--न चैवमिति / उक्तलाघवानङ्गीकारे शब्दाश्रयत्वराहित्ये आकाशान्यत्वमात्रं त्वदभिमतप्रयोजकं न स्यादित्याह--अन्यथेति / उक्तानुभवस्य गुणत्वे आत्मरूपतानुपपत्तेरगुणत्वमर्थसिद्धमपि मुखतो निरूपयितुमाह--स चानुभव इति / ... अहङ्कार एव ज्ञानगुणितया प्रतीयत इत्यत आह--जानामीति / वृत्तिव्यतिरिक्तानुभवस्थाप्यहङ्काराश्रयत्वमनुभूयत इति चोदयति-स्यादेतदिति / अनुमानमपि संविदोऽहङ्कारगुणत्वे प्रमाणमित्याह-किञ्चेते। आत्मनि घटे च व्यभिचारवारणाय हेतौ विशेषणद्वयम / अत्र चैकेन्द्रियग्राह्यजातिमत्त्वस्य विवक्षितत्वान्न प्रमाविशेषे व्यभिचारः। स्मृतेरहङ्कारधर्मत्वानुपपत्तिरप्यनुभवस्याहङ्कारधर्मत्वे मानमित्याह--अहङ्कङ्कारस्येति / वृत्तेरहङ्कारधर्मत्वात्तत एव स्मृत्युपपत्ति