________________ प्रथमः परिच्छेदः 127 यथाश्रुतेऽपि नान्दुमानदोषः अस्तु वा यथाश्रुत एव / न चेच्छादौ व्यभिचारः। तत्र होच्छैव विषयपरामर्शाधीनपरामर्शा तस्या विषयनिरूप्यत्वान्न तद्भदः / इच्छाज्ञाने सति तद्विषयपरामर्श विना तद्भेदपरामर्शादर्शनात् / घर्मिप्रतियोगितदवच्छेदकव्यतिरिक्तविषयज्ञानस्य भेदज्ञाने ऽनुपयोगाच्च / संवित्तु स्वप्रकाशा, अनपेक्ष्यविषयप्रकाशं प्रकाशते / तद्भेदस्त्वन्वयव्यतिरेकसहचारवर्शनात् विषयपरामर्शाधीनपरामर्शः। संवित्संवित्प्रतियोगिकभेदवती न, संवित्वात्, व्यतिरेकेण घटवत् / न चाप्रयोजकत्वम् / लाघवेनासंवित्वे संविदन्यत्वस्यैव प्रयोजकत्वात् संविदद्वितीयत्वसिद्धः / न चैवमघटत्वे घटान्यत्वं प्रयोजकमिति घटाद्वितीयत्वापत्तिः। प्रमाणप्रतिपन्नभेदघटादौ बाधितस्य लाघवस्यानवतारात् / गुरोरपि घटत्वावच्छिन्नप्रतियोगिकभेदवत्वस्य यावत् घटभेदाश्रयत्वस्य वा तत्र _तत्रोक्तं दोषं परिहरति-न चेच्छादाविति / इच्छादिभेदस्योपाधिपरामर्शमन्तरेणाविभाव्यमानत्वं तत्परामर्शाधीनप्रतीतिकत्वे स्यात् , न चैतदस्ति उपाधिपरामर्शस्येच्छाप्रतीतावेव हेतुत्वादित्याह--तत्रहीति / यद्यपि सिद्धान्ते इच्छाप्रतीतेः केवलसाक्षिरूपत्वान्न विषयपरामर्शापेक्षा, तथापि तद्भेदप्रतीतेरपि साक्षिरूपत्वान्न तदपेक्षेति तुल्यम् / व्यतिरेकाभावान्न विषयज्ञानस्य भेदज्ञाने उपयोग इत्याह-- इच्छाज्ञान इति / किञ्च भेदज्ञाने धर्मिप्रतियोगिज्ञानं तयोरवच्छेदकज्ञानं च कारणं इच्छाप्रतियोगिकभेदे विषयस्य धर्मिप्रतियोगित दवच्छेदकत्वाभावान्न विषयज्ञानं भेदज्ञाने हेतुरित्याह--धर्मोति / न च तत्र धाद्यवच्छेदको विषय एवेति वाच्यम। अविद्यमानस्य विषयस्य विद्यमानधाद्यवच्छेदकत्वायोगात् / घटीयत्वपटीयत्वादेरेवेच्छास्वाभाविकधर्मस्य तदवच्छेदकत्वात् / तस्यैव विषयपरामर्शाधीनज्ञानत्वादेकविषयानेकेच्छायां तदसम्भवादिति भावः। तर्हि इच्छावत्संविदेव विषयपरामर्शाधीनपरामर्शा न तद्भेद इत्यत आह--संवित्त्विति / घटाद्यपहितसंविदः स्वप्रकाशाया एव धर्मिप्रतियोगिताद्विषयपरामर्शय तत्रोपयोगाभावात्तद्भदज्ञान एवोपयोग इत्याह / तद्भेदस्त्विति / संविदैक्ये व्यतिरेक्यनुमानमप्याह---संविदिति / संवित्संवित्प्रतियोगिकभेदववरहितेति साध्यार्थः। तथाच घटसंविदः पटसंविप्रतियोगिकभेदवत्त्वे ऽपि स्वप्रतियोगिकभेदाभावमात्रेण न सिद्धसाधनता / नापि बाधः। संविदः सवित्प्रतियोगिककल्पितभेद वत्त्वेऽवि तदत्यन्ताभावस्यापि