________________ 126 सटीकाद्वैतदीपिकायाम् यित्वादुत्पत्तिविनाशानुभवाच स्पष्टो भेद इति तदनुगतबुद्धेर्जातिविषयत्वात् // प्रयोगश्च वृत्तिव्यतिरिक्ता संवित् स्वप्रतियोगिकस्वसमानसत्ताकयावङ्गेदरहिता प्रमाणतो ऽविभाव्यमानतद्भेदत्वात् चन्द्रादिवत् / न च दृष्टान्ते साधनवैकल्यम् / तद्भेदवत्तया प्रमीयमाणत्वाभावस्य विवक्षितत्वात् / न चाश्रयासिडिः। बृच्यतिरिक्तसंविदः पक्षस्य निरूपितत्वात् / न च हेत्वसिद्धिः। संविनेदे प्रमाणाभावस्योक्त त्वात्। गौरवं च विपक्षे वाधकस्ततः / / सूचितः // नुभवस्तत्र प्रमाणमिति वाच्यम् / धर्मिकल्पनातो धमकल्पनाया लघीयस्त्वेन प्रसिद्धच्छास्वेव जातिकल्पनया प्रामाण्योपपत्तेः। वृत्तिव्यतिरिक्तानुभवस्य त्वनेकप्रमाणसिद्धत्वान्नास्य न्यायस्यावतार इति भावः। आद्य व्यक्तिभेदस्य निश्चितत्वेन लाघवानवताराजातिविपयकत्वं वक्तव्य मित्याह--तस्याश्चेति / / संविदभदे ऽनुमानमपि प्रमाणमित्याह--प्रयोगश्चेति / वृत्तिज्ञाने बाधपरिहाराय वृत्त्यतिरिक्तेति / दृष्टान्ते साध्यवैकल्य परिहाराय स्वप्रतियोगिकेति / स्वशब्दः समभिव्याहृतपरः / पक्षे बाधपरिहाराय स्वसमानसत्ताकेति / व्यक्तिविशेषे स्वप्रतियोगिकभेदाभावेन सिद्धसाधनतापरिहाराय यावदिति चोक्तम् / एतदनुमाननिष्कर्षश्च पूर्वपक्ष एव दर्शित इति नात्र किञ्चिदुच्यते। तद्भेदत्वादिति / स्वप्रतियोगिकभेदवत्त्वादित्यर्थः। तावत्युक्त विरोधः स्यात्तन्निरासाय प्रमाणतो विभाव्यमानेति विशेषणम् / चन्द्रादिवदिति / प्रतिविम्बचन्द्रादिवदित्यर्थः / ननु परमते प्रतिविम्बचन्द्र चन्द्रप्रतियोगिकभेदाभावेन साधनविशेष्यविकलो दृष्टान्त इति चेन्न / अपरोक्षतया प्रतीयमानत्वानुपपत्त्या तत्राप्यनिर्वचनीयभेदस्यावश्यकत्वात् / अथवा स्वप्रतियोगिभेदवत्तया प्रमाणायोग्यत्वस्य हेतुत्वेन विवक्षितत्वान्नायं दोष इत्याह--न चेति / यदुक्तं पूर्वपक्षे तदन्यस्य चासिद्धेरिति तत्राह--न चाश्रयासिद्धिरिति / तर्हि मन्मते संविवेदस्य प्रामाणिकत्वादसिद्धो हेतुरित्यत आह--न च हेत्वसिद्धिरिति / संविद्भदस्य प्रामाणिकत्वात्पारमार्थिकत्वे व्यक्त्यानन्त्यं जातिश्चेत्यप्रामाणिकानेककल्पनागौरवमित्याह--गौरवञ्चेति / आचार्यानुमाने ऽप्युक्तहेतोरेव विवक्षितत्वान्नेच्छादौ व्यभिचार इत्यभिप्रेत्याह--अयमेवेति // यथाश्रुते ऽपि तदनुमाने न दोष इत्याह-अस्तु वेति /