________________ प्रथमः परिच्छदः 125 अनुभ-भेदे न प्रत्यक्षं प्रमाम् - यवनुभवभेदे प्रत्यक्षं प्रमाणमिति तन्न / अनुभवस्यैकत्वे ऽपि घटज्ञानं न भवति पटज्ञानमित्यनुभवोपपत्तेः। एकस्मिन्नपि ज्ञाने विषयभेदावच्छिन्नप्रतियोगिकभेदाश्रयत्वात् / एकस्मिन्नपि वृक्षे अवच्छेदभेदेन कपिसंयोगवदन्योन्याभावस्य मूले वृक्षः कपिसंयोगवानग्रे नेत्यनुभवात् / परेणापि भ्रान्तिज्ञाने ऽप्येकस्मिन्ययंशे विभ्रमो नेत्यनुभवाभ्युपगमात् / ज्ञानभेदानुभवस्य वृत्तिविषयत्वाच्च / तस्माद्यत्र स्पष्टमन्यतः प्रमाणादुव्यक्तिभेदः सिद्ध्यति तत्रानुगतबुद्धिर्जातिविषया यत्र तु न तथा किन्तु सन्देहः, तत्र लाघवाव्यक्तिरेव तद्विषयः / लाघवस्य प्रमाणान्तर इव प्रत्यक्षे ऽपि सहकारित्वादिति ज्ञाने सन्दिग्धभेदे ऽनुगतबुद्धिर्व्यक्तिविषया // अनुगतेच्छानिरासः एतेनानुगतवुद्धर्जातिविषयत्वादन्यथेच्छादिव्यक्तिरप्येकैव स्यात्तस्या अनगतबुद्धिविषयत्वादिति निरस्तम् / अन्तःकरणगतेच्छातिरिक्तच्छायां प्रमाणाभावात् / तस्याश्च कारणभेदानुविधा घटपटानुभवयोः स्वरूपे गाभेदेऽपि घटावच्छिन्नानुभवप्रतियोगिकभेदवत्वात्पटानुभवस्य तद्विषयत्वेन भेदप्रत्यक्षोपपत्तिरित्याह--अनुभवस्येति / एकस्मिन्नपि अवच्छिन्नस्वप्रतियोगिकभेदवत्त्वे दृष्टान्तमाह--एकस्मिन्नपीति / परमते ऽप्येकत्वेन सम्मतानुभवे धयंशावच्छिन्ने तस्मिन्प्रकारावच्छिन्नतत्तादात्म्यनिषेधो ऽङ्गीकृत इत्याह--परेणापीति / भेदानुभवस्य वृत्त्यतिरिक्तप्रकाशविषयत्वमङ्गीकृत्याविरोध उक्त इदानीं तद्विषयत्वमेव नास्तीत्याह--ज्ञानभेदेति / तानभवाभेदे ऽपि न प्रमाणमस्तीत्याशङ्कय कविषयानुगतबुद्धिरेव गौरवेण जातिकल्पनानुपपत्तौ तदैक्ये प्रमाणमित्युपसंहरति / तस्मादिति-सामान्येनोक्तमर्थ प्रकृते योजयति- इति ज्ञान इति / / - अनुगतबुद्धेर्जातिविषयत्वनियमाभावे इच्छाद्यनुगतबुद्धिरपि व्यक्तिविषया स्यात्तथा च तदेकत्वमपि स्यादित्याशङ्कयाह--एतेनेति / किमिच्छानुगतबुद्धेरहमर्थधर्मभूतेच्छाया ऐक्यं विषय इत्युच्यत उत तद्वयतिरिक्तच्छायाः ? न द्वितीय इत्याह-अन्तःकरणेति / न चायमेवानुगता