________________ सटीकाद्वैतदीपिकायाम् संसर्गाग्रहे जाग्रति गजादेरिव स्वप्नेऽपि तस्यापरोक्षतानुपपत्तेः / अपरोक्षत्वे वा स्वप्नोपलब्धः सर्वोप्यपरोक्षः स्यात् / अनुभवे च तस्मिन् न तावच्चक्षुरादिकं हेतुः / तेषामुपरतत्वात् / नापि मनः / असहायस्य तस्य बहिरप्रवृत्तः / अन्यथाख्यातिवादिशंकानिरासः ____ अस्तु तर्हि स्मर्यमाणस्य गजादेरारोप इति चेन्न / चक्षुरसन्निकृष्टे बाह्ये तदसंभवात् / मनस्सन्निकृष्टे चाहमर्थे तदारोपे 'अहंगजः' 'मयि गज' इति वा प्रतीतिप्रसङ्गात् / ननु स्मर्यमाणसन्निहितदेशे स्मर्यमाणगजाद्यारीपः / न चाननुभूतस्याप्यसम्भावितस्यापि स्वप्नेऽनुभवान्न स्मर्यमाणारोप इति वाच्यम्। शब्दादिसर्वप्रमाणाविषयस्यस्वप्नेऽनुभवादर्शनात् / न चैवं जाग्रत्यपि तथात्वं किं न स्यात् पूर्वपूर्वभ्रमदर्शित. योर्विशेषणविशेष्ययोः स्मृतिसम्भवादिति वाच्यम् / जाग्रति बाधाभावात्, चक्षुराद्यन्वयव्यतिरेकाच्चेति चेन्न / येन हि रोप्यत इत्याशङ्क्य स्मृतित्वमेव तस्यानुपपन्नमित्याह--तद्विषयस्येति / अत्राख्यातिवादी स्मर्यमाणगजादीनामसंसर्गाग्रहमानं न तु संसर्गानुभवोऽस्तीति जल्पति / तदयुक्तम् / अनाप्तवाक्यात् स्मर्यमाणयोरसंसर्गाग्रहेऽप्यापरोक्ष्याभावादत्रापि तदनुपपत्तिरित्याह-स्मर्यमापयोरिति / इतरथा स्वप्ने परोक्षत्वापरोक्षत्वविभागो न स्यादित्याह-अपरोक्षत्वे वेति / अस्तु तर्हि जन्य एवानुभव इत्याशक्य किं तत्र चक्षुरादिकं हेतुः, उत मन: ? / नाद्य इत्याह--अनुभवे चेति / द्वितीयं दृषयतिनापीति / बाह्यविशेष्यकानुभवे मनसोऽसमर्थत्वादित्यर्थः / / अत्रान्यथाख्यातिवादी चोदयति-अस्तु तीति / स किं चाक्षुष आरोपः उत मानसः ? / नाद्यः, चक्षषो विशेष्यसन्निकर्षाभावादित्याह--न चक्षुरिति / द्वितीयेऽपि किं साक्षान्मनःसन्निकृष्टे आत्मन्यारोपः, उत स्मरणद्वारा सन्निकृष्टे बाह्यदेशे ? / आद्ये दोषमाह-मनः सन्निकृष्टे चेति / तादात्म्यारोपे 'अहं गज' इति स्यात्। संसर्गारोपे मयि गज' इतीत्यर्थः / द्वितीयं शङ्कते-ननु स्मर्यमाणेति / नन्वाकाशगमनस्वशिरश्छेदादेरननुभूतस्यापि