________________ [ 2 ] एकस्मिन् धार्मिक विषये विवादमधिकृत्य विसृष्टे व्यवस्थापत्रे श्रीनृसिंहाश्रम, गागाभट्ट, अप्पय्यदीक्षित खण्डदेव अनन्तभट्टादीनां पण्डितप्रकाण्डानां हस्ताक्षराणि सन्ति / एतेनापि ज्ञायते यत् श्रीनृसिंहाश्रमश्रीचरणा: श्रीमदापय्यदीक्षितखण्डदेवादिसमकालिका इति / सम्मतिपत्रं च श्रीसूर्यनारायणशुक्लपोत्यैः स्वेन सम्पादितभाट्टचिन्तामणिग्रन्थभूमिकायां सामस्त्येन मुद्रित प्रकाशते / / ___अस्मिन्नेव सन्दर्भ श्रीनृसिंहाश्रमः श्रीदीक्षितमहाभागाः प्रेरिताः कल्पतरुव्याख्या कर्तुमिति संभाव्यते। एते च श्रीनृसिंहमन्त्रपुरश्चरणेन न केवलं श्रीनृसिंहभक्ता अपि च वेङ्कटाचलनायके कृताविर्भावे श्री वेङ्कटेश्वरे महती भक्ति ग्रन्थेऽस्मिन् तत्र तत्र प्रकटयन्ति / यथा प्रथमपरिच्छेदे 54 पुटे-- जिज्ञासितश्रोवेङ्कटाचलनायककमनीयलीलाविग्रहबुद्धिधारासामग्रयां सत्यामपि-इत्यादिना। एतेषां संपूर्णयोगपट्टः 'ब्रहेन्द्रसरस्वत्याख्ययतिनृसिंहाश्रमः' इति प्रकृतसम्मतिपत्रे उल्लेखात् नृसिंहाश्रमब्रह्मेन्द्रसरस्वती इति निर्णीतं भवति / एतैः विरचिता ग्रन्थाः (1) भेदधिक्कारः-काश्यां श्रीनारायणाश्रमकृतटीकया सह प्रकाशितः / (2) तत्त्वविवेकः-स्वकृतटीकया सह मैसूरविश्वविद्यालये प्रकाशितः / (3) संक्षेपशारीरकव्याख्या-काश्यां संस्कृतविश्वविद्यालये प्रकाशिता। (4) पञ्चपादिकाविवर टीका भावप्रकाशिका-मद्रास प्राच्यलिखितपुस्तक भाण्डागारेण मुद्रापिता। (5) अद्वैतदीपिका-पूर्व पण्डितपत्रिकायां प्रकाशिता द्वितीयपरिच्छेदान्तम् / इदानीं समग्रं मुद्रापयिष्यते। (6) नृसिंहविज्ञापनम् प्रार्थनारूपत्वेपि वेदान्तार्थप्रकाशनपरो ग्रन्थः / मातृका __पूर्व मुद्रितपुस्तकस्याशुद्धिग्रन्थपातादियुक्तत्वेपि काश्यां हनुमद्धट्टस्थभजनमन्दिराध्यक्षेण श्रीरामकृष्णशास्त्रिवर्येण स्वपूर्वकः संगृहीतं अत्यन्तविशुद्धं हस्तलिखितं सव्याख्याद्वैतदीपिकापुस्तकं प्रमोदेन मद्धस्ते समर्पितम्। तच्च प्राचीनः शोधितमेवासीदतः मुद्रणे पुस्तकान्तरावलोकनप्रयासं विनैव तेनैव पुस्तकेन सर्व मुद्रणकार्य निव्यूढमासीत् / श्रीरामकृष्णशास्त्रमहोदयेभ्यः कृतज्ञतां समर्पयामि / विदुषां वशंवदः एस्० सुब्रह्मण्यशास्त्री