________________ 118 सटीकाद्वैतदीपिकायाम् गुणानां सर्वत्रोपलम्भप्रसङ्गाच्च / न च संयोगातिरिक्तः सम्बन्ध आत्ममनसोः सम्भवति / न चानुपलब्ध्या ज्ञानाभावग्रहः / प्रतियोगिग्राहकेन्द्रियेणाधिकरणस्य संयोगलक्षणसहकारिविरहात् / अन्यथा त्वक्संयुक्त घटेऽन्धस्याप्यनुपलब्ध्या रूपाभावग्रहप्रसङ्गात् / अतो ज्ञानाभावसाक्ष्यहमर्थधर्मातिरिक्तो नित्यानुभव एषितव्यः। श्रुतिरपि "न हि द्रष्ट्रदृष्टेविपरिलोपो विद्यत" इति वृत्तिमदन्तःकरणसाक्षिणं नित्यमनुभवं दर्शयति / तस्मादनु. भवो नित्य इति // साक्षिनित्यत्वे उत्यत्तिविनाशानभवर्गात प्रश्नः .. एतेन कथं तर्हि घटज्ञानं नष्टमुत्पन्न मिति चानुभवः / न च वृत्तिविषयोऽयमनुभव इति वाच्यम् / तस्य ज्ञानत्वविशिष्टप्रतियोगिकोत्पत्तिविनाशविषयत्वात् / वृत्तेश्चाज्ञानत्वात् / ज्ञानत्वे वा तस्या अपि स्वयम्प्रकाशत्वेन ज्ञानविषयत्वविरोधात् / अन्यथा. स्वप्रकाशत्वेनेन्द्रियायोग्यत्वात्प्रतियोगिग्राहकेणेन्द्रियेणाधिकरणग्रहणरूपकारणाभावादित्याहन चानुपलब्ध्येति / नन्वधिकरणप्रत्यक्षमात्रमनुपलब्धिसहकारि न तु प्रतियोगिग्राह केणेन्द्रियेणापीत्यत आह-अन्यथेति / ज्ञानाभावस्य प्रमाणतो ऽनुभवितुमशक्यत्वात्तदनुभवो नित्य एवाङ्गीकर्तव्य इत्युपसंहरति-अत इति / अनुभवनित्यत्वे श्रुतिमपि प्रमाणयति-श्रुतिरपीति / न चेयं श्रुतिरीश्वरज्ञानस्यैव विनाशं निषेधतीति वाच्यम् / “न हि घ्रातुर्घातेविपरिलोपो विद्यत" इत्युत्तरवाक्यासामञ्जस्यप्रसङ्गात् जीवप्रकरणविरोधाच्चेति भावः॥ ____ अनुभवनित्यत्वस्य प्रामाणिकत्वादेव चोद्यान्तरमपि निरस्तमिति वक्तुं चोद्य मनुवदति-एतेनेति / एतेनेत्यस्य निरस्तमित्युत्तरेणान्वयः। नाशाद्यनुभवो वृत्तिविषय इत्युक्तमित्याशङ्कय वृत्तनित्वमस्ति उत न ? अन्त्ये तद्विषयत्वमनुपपन्नमित्याह / न च वृत्तीति / ज्ञानत्वपक्षे अभावप्रतियोगितया वेद्यत्वमपि न स्यादित्याह-ज्ञानत्वे वेति / ज्ञानत्वेऽपि स्वप्रकाशत्वं वृत्तेर्नास्तीत्याशङ्कय तर्हि स्वप्रकाशत्वानुमाने ऽनुभवत्वहेतोः तत्रव्यभिचारः स्यादित्याह / अन्यथेति / ननु वृत्तरौपचारिकज्ञानत्वमादाय नाशानु