________________ प्रथमः परिच्छेदः 117 भेदः सम्भवति / एवमप्यणुमनसि प्रदेशभेदासम्भवाच्च / नापि द्वितीयः। स्वाभाविकप्रदेशभेदाभावे उपाधिनापि तजज्ञानासम्भवात् / आरोपितप्रदेशभेदज्ञाने वा तव मतेऽर्थाभावेन संयोगस्य प्रदेशवृत्तित्वासिडेः / / वस्तुनो द्वैरूप्यायोगेन परम- निरासः न तृतीयः तव मते तत्प्रतियोगिकभेदस्य तस्मिन्नसम्भवात् / अन्यथा तस्मिन्नतबुद्धेः प्रमात्वप्रसङ्गात् / नापि प्रथमद्वितीयः अपारमार्थिकस्यानिर्वचनीयस्य त्वयाऽनभ्युपगमात् / अत्यन्ता. सतश्च धाव्यवस्थापकत्वात् / अस्तु तर्हि संयोगो व्याप्यवृत्तिरिति चेन्न / तस्य स्वात्यन्ताभावसदेशत्वानुभवात् / अत्यन्ताभावप्रतियोगिनोश्च प्रदेशभेदनियमात् / अन्यथा विरोधो दत्तजलाअलिः स्यात् / निमित्तसंयोगान्यूनानतिरिक्तप्रदेशविभुविशेष. जन्यत्वमङ्गीकृत्य मनसि तदसम्भवमाह-एवमपीति / एकस्मिन्मनसि भेदे सति भिन्नयोः शकलयोः पूर्वावस्थातः सूक्ष्मतापत्त्या पूर्वमनसोऽणुत्वभङ्गः स्यादित्यर्थः / द्वितीये ऽपि तद्ज्ञानं प्रमोत भ्रमः ? नाद्यः। तत्र तद्भेदाभावे तत्प्रमाऽसम्भवादित्याह-नापि द्वितीय इति / भेदज्ञानस्य भ्रमत्वे वस्तुतो भेदाभावात्प्रदेशभेदसापेक्षसंयोगानुपपत्तिरित्याह-आरोपितेति / तवमतेऽनिर्वचनीयानङ्गीकारादुपाध्यधीनसम्बन्धः पारमार्थिको वक्तव्यः स च नोपपद्यते वस्तुनो द्वैरूप्यायोगादित्याह-न तृतीय इति / तस्मिन्नपि तद्भेदे यत्किञ्चिदुपहिते रजतेऽप्यरजतबुद्धिः प्रमा स्यादित्याहअन्यथेति / पारमार्थिक उत नेति विकल्पेऽपारमार्थिकत्वं किमनिर्वचनीयत्वं उतासत्त्वं उभयथाऽप्यनुपपत्तिरित्याह-नापि प्रथमेति / संयोगस्य रूपादिवव्याप्यवृत्तित्वान्न प्रदेशभेदापेक्षेति चोदयति-अस्तु तहीति / एकस्मिन् भूतले घटसंयोगतदभावानुभवान्न व्याप्यवृत्तितेत्याह-न तस्येति / तर्हि निरवयवे ऽपि संयोगतदभावौ स्तामित्यत आह-अत्यन्ताभावेति / किञ्च संयोगस्य व्याप्यवृत्तित्वे परमते निमित्तसंयोगावच्छिन्नदेशसमवायिनां शब्दसुखादीनां व्याप्यवृत्तित्वं स्यादित्याहनिमित्तेति / षष्ठप्रमाणाङ्गीकारे ऽपि न तेन ज्ञानाभावग्रहः सम्भवति ज्ञानस्य