________________ 116 सटीकाद्वैतदीपिकायाम निरवयवत्वे भावाभावयोयुगपढत्यसम्भवः न च निष्प्रदेशेऽप्यौपाधिकप्रदेशो न विरुद्धयत इति वाच्यम् / उपाधिर्य पधेयेन सम्बद्धस्तमवच्छिन्द्यात् / अन्यथाऽतिप्रसङ्गात् / सम्बन्धश्च निरवयवे संयोगेऽअनुपपन्न एव / तस्याप्युपाध्यन्तरापेक्षायामनवस्था स्यात् // उपाधिनिमितप्रदेशभेदासंभवः ___किश्चायमौपाधिकप्रदेशभेदः पारमार्थिक उत न ? आये तदेकत्वव्याघातो विरुद्धयोधर्मयोरेकत्रासमावेशात् / औपाधिकत्वं ह्यपाधिजन्यत्वात्तज्ज्ञाप्यत्वादुपाध्यधीनसम्बन्धाता। आये अग्निसंयोगाइक्तिमोत्पत्तौ श्यामतेवौपाधिजन्यभेदानिर्भेदता व्यावर्तेत / न वा कश्चिदुपाधितदुपधेयस्वरूपव्यतिरेकेण तजन्यो निरवयवे स्वाभाविकप्रदेशभेदाभावेऽप्यौपाधिकप्रदेशभेद उपपद्यते इत्याशङ्कयाह-न च निष्प्रदेश इति / उपाधिसम्बन्धस्यैवानुपपत्तिं वक्तु तस्यावश्यकत्वमाह-उपाधिहींति / अस्तु तर्हि सम्बद्धस्यैव भेदकत्वमित्याशङ्कय स किं स्वरूपसम्बन्ध उत संयोगः। नाद्यः, स्वरूपद्वयात्मकसम्बन्धस्य सम्बन्धिद्वय. व्यापक्तया भेदकत्वायोगात्। द्वितीयस्तु निरवयवे प्रदेशभेदमन्तरेण न सम्भव. तीत्यभिप्रेत्याह-तत्सम्बन्धश्चेति / उपाधिसंयोगप्रयोजकप्रदेशभेद उपाध्यन्तरसम्बन्धाधीन इत्याशङ्कयाह -तस्यापीति // ___उपाधिसम्बन्धेऽनुपपत्तिमुक्त्वा तदधीनप्रदेशभेदोऽपि दुर्निरूप इत्याहकिञ्चेति / भेदस्य परमार्थत्वे उपहितानुपहितयोरभेदो न स्यात् समानसत्ताकयोर्भदाभेदयोरेकत्र विरोधादित्याह-आद्य इति / किश्च प्रदेशभेदस्यौपाधिकत्वं नामाग्निसंयोगजरक्ततावदुपाध्यधीनोत्पत्तिकत्वं किं वा स्फटिकलौहित्यवदुपाध्यधीनज्ञानविषयत्वमथवा उपाध्यत्यन्तभाववत्प्रतियोगिकभेदस्य घटादौ विद्यमानस्योपाधिविशिष्टेन सम्बन्धवत्वमिति विकल्पयति-औपाधिकत्वमिति / आद्येऽपि कि पृथक्त्वं भेद अन्योन्यायाभावो वा ? प्रथमं दूषयति-अग्निसंयोगादिति / अन्योन्याभावस्यानादित्वाद्वितीयोऽपि न सम्भवतीत्याह-न वा कश्चिदिति / भेदस्य