________________ प्रथमः परिच्छेदः 115 प्रतियोगिनमपि गृह्णाति उताभावमात्रम् / चरमेऽभावमात्रं सिद्धयेन तु तस्य ज्ञानसम्बन्धित्वम् / प्रथमे ज्ञानस्य मानसत्वे न तस्य स्वप्रकाशत्वम् / अविद्यमानज्ञानस्य मानसत्वं न विरुद्धमिति चेत्तर्हि स्वपक्राशत्वं विद्यमानत्वप्रयुक्तं स्यान्न ज्ञानरूपप्रयुक्तम् / तथा सति घटादेरपि स्वप्रकाशत्वापत्तिः। विद्यमानदशायां ज्ञानं स्वप्रकाशमिति चेत् / किं विद्यमानदशायां ज्ञानस्य स्वप्रकाशत्वे विद्यमानत्वमेव प्रयोजकम् , उत विद्यमानज्ञानत्वं केवलज्ञानत्वं वा ? प्रथमेतिप्रसङ्गाद्वितीये गौरवात्ततीयमेव वाच्यम् / तथा चातीताविज्ञानं कथं मनसा गृह्यत / ज्ञानामावस्य मनसा सम्बन्धाभावाच्च / संयुक्तविशेषणता सम्बन्ध इति चेन्न / निरवयवस्य मनसो निरवयवेनात्मना संयोगानुपपत्तेः। संयोगो ह्यव्याप्य वर्तते, न च निष्प्रदेशात्मनि मनसि च तस्याव्याप्यवृत्तिता सङ्गच्छते // अभाव इति शब्देनाभावमात्रप्रतीतावपि न ज्ञानप्रतियोगिकत्वसिद्धिर्यथा एवं मनसापि तावन्मात्रे गृहीते न तत्सिद्धिरित्याह-चरम इति / आद्ये ज्ञानस्वप्रकाशत्वभङ्गः घटादिवदैन्द्रियकत्वादित्याह प्रथम इति / वर्तमानदशायामेव स्वप्रकाशस्वादभाव काले वेद्यत्वमविरुद्धमिति शङ्कते-अविद्यमानेति / अतीतज्ञानादेनित्वे सत्यपि वर्तमानत्वाभावेन अस्वप्रकाशत्वे ज्ञानत्वं तत्राप्रयोजकं स्यात् किन्तु वर्तमानत्वमेव तथा चातिप्रसङ्ग इत्याह-तीति / अतिप्रसङ्गपरिहारं शङ्कतेविद्यमानेति / अत्रापि स्वप्रकाशत्वप्रयोजकं विकल्प्य दूषयति-किं विद्यमानेति / सिद्धान्ते ऽपि पुरुषान्तरीयप्रकाशस्य पुरुषान्तरवृत्तिविषयत्वमेव न प्रकाशविषयत्वमिति भावः। मनसो ज्ञानाभावासनिकृष्टत्वादपि न तद्ग्राहकत्वमित्याहज्ञानाभावस्येति / मनः संयुक्तात्मविशेषणतैव तत्सम्बन्ध इति शङ्कते-संयुक्तति / आत्ममनसोः संयोगस्यैवासम्भवान्नायं सम्बन्ध इत्याह-निरवयवस्येति / निरवयवयोरपि द्रव्यत्वात्संयोगः किन्न स्यादित्यत आह / संयोगो हीति / / नन्वव्याप्यवृत्तित्वंनाम स्वात्यन्ताभावसमानाधिकरणत्वं तस्य निरवयवसंयोगेऽप्यविरोध इत्याशय भावाभावयोयुगपदेकत्र वृत्त्यसम्भवात्प्रदेशभेदेन वृत्तिर्वाच्या, निरव यवत्वे च तदनुपपत्तिरित्याह-न च निष्प्रदेशेति /