________________ 114 सटीकाद्वैतदीपिकायाम् सम्बन्धविरहादप्युपपत्तेः। पटज्ञानकाले ज्ञाने तदीयत्वानुभवाभावे ऽपिज्ञानमात्रानुभवस्य सत्त्वात् / ज्ञानज्ञेययोः स्वरूपमेव सम्बन्ध इति मते ऽपि यथा च त्वदीयघटाभावभूतलयोः स्वरूपमपि सम्बन्धः कालभेदेन न तु सर्वदा, अन्यथा घटवति घटाभावभ्रमस्य विद्यमानाभावभूतलवैशिष्ट्यविषयत्वेन प्रमात्वापातात्। एवं ज्ञानशेययोरपि कालभेदेन सम्बन्धस्वभावं स्वरूपमिति सम्बन्धिनोः सतोरपि सम्बन्धाभावोपपत्तेः। ज्ञानाभाबग्राहकस्य दुनिरूपता अपि च ज्ञानाभावः केन ग्राह्यः। मनसेति चेत्, कि मन: लम्भो ऽसिद्ध एव, घटज्ञानत्वेनानुपलम्भस्तु तत्काले घटसम्बन्धाभावेनैव नित्यस्याप्युपपद्यते / यथा तन्मते तत्काले घटज्ञानसमवायानुपलम्भः, समवायस्य नित्यत्वे ऽपि घटज्ञानेन स्वरूपसम्बन्धाभावादेव तद्वदिति परिहरति-न तन्मत इति / ननु समवायस्यैकत्वात्तस्य पटज्ञानकाले ऽप्यनुभूयमानत्वान्नानुपलम्भ इत्याशङ्कय तुल्यमित्याह-पटज्ञानेति / नन पटज्ञानसमये घटस्याप्यसत्त्वाभावातज्ज्ञानस्यापि सत्त्वे स्वरूपद्वयात्मकसम्बन्धस्यापि सत्त्वेन घटीयत्वेनाप्यनुपलम्भो न स्यादित्याशङ्कय ज्ञानज्ञेययोः स्वरूपसम्बन्धनियमाभावात्तदङ्गीकरऽपि पट ज्ञानकाले विद्यमानस्यापि घटस्य सम्बन्धरूपत्वाभावात्कालविशेष एव स्वरूपस्य सम्बन्धरूपत्वात्तदा ज्ञाने घटीयत्वं नास्तीत्याह-ज्ञानज्ञययोरिति / ननु सिद्धान्ते ऽपि कथं वृत्त्यभावानुभवः / विद्यमानाया अपि तस्याः कालभेदेन स्वरूपसम्बन्धाभावेनानुपलम्भोपपत्तेरिति चेन्मैवम् / प्रत्यक्षवृत्तमुख्यसम्बन्धेन यावत्स्वरूपं विषयसम्बन्धसत्त्वात्तदनुपलम्भस्तत्सत्त्वविरोध्येव / परोक्षवृत्तेरपि वृत्तित्वा. विशेषाद्यावत्स्वरूपं विषयसम्बन्धसत्त्वात्तदनुपलम्भो ऽपि तादृश एव / वस्तुतस्त्वस्मन्मते नानुपलब्ध्या ज्ञानाभावो गृह्यते, किं तु ज्ञानग्राहकसाक्षिणवानुपलम्भनिरपेक्षेण विद्यमानो वृत्त्यभावो गृह्यत इति नानुपपत्तिरिति भावः / ___किश्च जन्यज्ञानस्य स्वप्रकाशत्वमते षष्ठप्रमाणानङ्गीकारात्तदभावग्राहकमपि दुर्निरूपमित्याह-अपि चेति / मनसोऽधिकरणात्मग्राहकतया तत्रत्याभावग्राहकत्व मिति नवीनमतानुरोधेन शङ्कते-मनसेति / विकल्पामहत्वान्मैवमित्यभिप्रेत्य विकल्पयति-किमिति /