________________ प्रथमः परिच्छदः 113 नापि व्यवहाराभावेनानुमीयते / तस्य तेनानियतत्वात् / नापि शब्दात् / परस्य तद्ग्राहकाभावेन तद्वाचकशब्दप्रयोगायोगास्वप्रयोगस्य च स्वधीपूर्वकत्वात्। स्वप्रकाशवादिमतेऽपि समवायस्यानित्यतया पाकरक्त श्यामसमवायाभावेन सत्यपिश्यामे, पुरुषान्तरे ज्ञाने सत्यपि पुरुषान्तरे तत्समवायाभावेन तदनुपलम्भवत् आत्मनि ज्ञानसमवायाभावेनैव सत्यपि तस्मिस्तदनुपलम्भोपपत्तेः॥ नबीनमतेऽप्यनुपलब्धेरन्यथासम्भवः यदि चार्वाचीनः कश्चित्स्वप्रकाशं ज्ञानं समवायो नित्य इति यात् तन्मते ऽपि न ज्ञानाभावः शक्यते ग्रहीतुं प्रतियोगिसत्ताविरोध्यनुपलम्भस्याभावात् / ननु स्वप्रकाशज्ञानग्रहे तत्तत्सम्बन्धातिरिक्तापेक्षाभावास्पटज्ञानकाले घटज्ञानानुपलम्भस्तत्सत्ताविरोध्यस्तीति चेन्न / तन्मते पटज्ञानकालीनस्व घटज्ञानसमवायानुपलम्भस्य तन्निरूपकतज्ज्ञानविरहादिव घटज्ञानानुपलम्भस्थापि तन्निरूपकघटप्रयोगहेत्वभावप्रत्ययाभावात्प्रयोग एवानुपपन्न इत्याह-नापि शब्दादिति / एवं वेद्यज्ञानवादेऽनुभवविरोधमप्रयोजकत्वं च निरस्य स्वप्रकाशज्ञानवादेऽपि योग्यानुपलब्ध्यभावेन ज्ञानाभावग्रहायोगान्नाशाद्यनुभवस्य तत्समवायविषयस्वसम्भवान्न तस्यानुभवनित्यतानुमानबाधकत्वमित्याह--स्वप्रकाशेति / यथा गुरुमते श्यामताया नित्यतया तत्समवायनाशादेव पाकरक्तघटे तदनुपलम्भः, यथा वा पुरुषान्तरे घटज्ञानसत्त्वे ऽपि स्वस्मिंस्तत्समवायाभावात्तदनुपलम्भ एवं स्वस्मिन्ननुभूतघटज्ञानस्य नित्यत्वे ऽपि कालान्तरे स्वसमवायाभावेनैवानुपलम्भोपपत्तेने तदभावसिद्धिरित्यर्थः / / नवीनमते ज्ञानस्वप्रकाशत्वसमवायनित्यत्वयोरङ्गीकारादनुपलब्धेः प्रतियोगिसत्त्वविरोधित्वादनुभवाभावो निश्चेतु शक्यत इत्याशङ्कयतन्मतेऽप्यनुपलब्धिरन्यथापि सम्भवतीत्याह यदि चेति / रेण न सम्भवतीति चोदयति-ननु स्वप्रकाशेति / पट ज्ञानापमये ज्ञानमात्रानुप