________________ 112 सटीकाद्वैतदीपिकायाम् संयोगबिशेषघटिततत्समवायः। अथवा ज्ञानान्तरसामग्रीविरहसहकृतः संयुक्तसमवाय उत बुभुत्सासहकृतः स एव / नाद्यः ज्ञानप्रवाहाविच्छेदप्रसङ्गात् / न हि सत्यां सामग्रयां किश्चिज्ज्ञानं जायते किञ्चिन्नेति युक्तम् / न द्वितीयः / संयोगे विशेषस्य निर. स्तत्वात् / नापि तृतीयः। सत्यामपि ज्ञानान्तरसामग्रयां ज्ञानग्रहदर्शनात् / अन्यथा ज्ञानमेव न गृह्येत / ज्ञानान्तरसामग्रया आवश्यकत्वात् // बुभुत्सा न ज्ञानहेतुः नापि तुरीयः। अबुभुत्सितज्ञानस्यापि ग्रहणेन बुभुत्साया ज्ञानग्रहाहेतुत्वादियुक्तम् / तस्माज्ज्ञानस्य मानसत्वायोगाज्ज्ञानानुपलम्भो नाधिकरणे तत्सत्ताविरोधाति न तदभावः प्रत्यक्षः स्यात् / अनुपलब्धेरन्यथासिद्धत्वादेव नानुपलचिलिङ्गकोऽपि / एवं तद्विषयज्ञानान्तरमिति वाह्यविषयज्ञानविलोपः स्यादित्याह-नाद्य इति / द्वितीये संयोगे विशेषो जातिरुपाधिर्वा स्यात् / उभयथाप्यनुपपत्तरित्युक्तमित्याह / न द्वितीय इति / तृतीयस्त्वसम्भवीत्याह- नापि तृतीय इति / असम्भवमेव व्यतिरेकमुखेनोपपादयति-अन्यथेति / ज्ञानग्रहसामग्रीदशायामात्मग्रहसामग्रथा आवश्यकस्वादित्याह-ज्ञानान्तरेति / किश्वास्मिन्पले ज्ञानाभावग्रहाय ज्ञानान्तरसामग्रथभावोऽपि ग्राह्यः, सामग्र्यभावश्च ज्ञानान्तराभावकल्प्यः, ज्ञानान्तराभावग्रहश्च तदितरज्ञानसामग्रयभावं विना नेत्यनवस्थापात इत्यपि द्रष्टव्यम् / दुःखतत्साधनज्ञानस्याबुभुत्सितस्याप ग्रहणाबुभुत्सा न ज्ञानग्रहे हेतुरित्याह-- नागीति / ज्ञानस्य संयुक्तसमवायमात्रेण मनोग्राह्यत्वायोगात्तदनुपलम्भस्य तत्सत्त्वे ऽप्युपपत्तेस्तत्सहकृतप्रत्यक्षेण नाभावग्रह इत्युपसंहरति / तस्मादिति / ननु ज्ञानमात्मनिष्ठाभावप्रतियोगि तत्रानुपलभ्यमानत्वादित्यनुमानात्तदभावनिश्चय इत्याशङ्कयानुपलभ्यमानत्वमात्रस्यातीन्द्रिये व्यभिचारादधिकरणेप्रतियोगिसत्ताविरोधित्वलक्षणयोग्यताया ज्ञानानुपलम्भेप्यभावादित्यभिप्रेत्याह-अनुपलब्धेरिति / अहं ज्ञानरहितः व्यवहाररहितत्वात् घटवदित्यनुमानात्तदभावसिद्धिरित्याशङ्ख्य मौनिषु व्यभिचारान्मैवमित्याह नापि व्यवहारेति / तर्हि शब्दाज्ज्ञानाभावधीरित्याशङ्कय किं परप्रयुक्तशब्दादुत स्वप्रयुक्तशब्दादुभयथापि