________________ प्रथमः परिच्छेदः 111 न च पराभ्युपगतज्ञानस्येव विरोधिगुणान्तरादेव तन्नाशः / तस्याहमर्थासमवेतस्य तत्समवेतगुणेनाविरुद्धत्वात् / नित्यानुभबस्याबश्याङ्गीकार्यता __किञ्च नित्यानुभवानङ्गीकारे ज्ञानाभावोऽपि नानुभूयेत / वेद्यज्ञानवादे ज्ञानस्यावश्यवेद्यत्वाभावेन सत्यपि तस्मिंस्तदनुपलम्भसम्भवात् अनुपलब्रधिकरणनिष्ठप्रतियोगिसत्वाप्रतिकूलत्वात् / अन्धकारस्थघटानुपलम्भवज्ज्ञानानुपलम्भस्याप्यभावाग्राहकत्वात् / नन्वन्धकारे घटानुपलम्भो घटोपलम्भसहकारिविरहात्सति घटेऽपि संगच्छते, इह तु ज्ञानग्राहकसामग्रया मन: सनिकर्षादेः सत्त्वात्तदनुपलम्भोऽधिकरणे तत्सत्त्वविरोधीति चेत् / नित्यानुभवानङ्गीकारे बिकल्पः किं मनसा संयुक्तसमवाय एव ज्ञानग्राहकसामग्री, किंवा 'तरत्यविद्यां विततामि" त्यादिशास्त्राचाविद्याया ज्ञाननिवर्त्यत्ववद्वृत्त्यतिरिक्तानुभवस्य न केनापि प्रमाणेन विरोधिसंसर्गः सिद्ध इत्याह-न तद्वदिति // अनुभवस्य विरोध्यभावो असिद्धः इच्छादेरेव तद्विरोधित्वादित्याशङ्कय हेत्वसिद्धथा दूषयति-न च परेति / विपक्षे बाधकमप्याह-किं चेति / नित्यानुभवानङ्गीकारे जन्यज्ञानानामवश्यवेद्यत्वनिए लाभावेनात्मनि ज्ञानसत्त्वे ऽपि तदनुपलम्भसम्भवाज्ज्ञानानुपलब्धेनिसत्त्वविरोधित्वलक्षणयोग्यताया ग्रहीतुमशक्यत्वादन्ध ारस्थ घटानुपलन्ध्या घटाभाववज्ज्ञानानुपलब्ध्या ज्ञानाभावो ऽपि गृहीतुन शक्यत इत्याह .... वेद्यज्ञानेत्यादिना। नन्वन्धकारे घटसत्त्वेऽप्यालोकाभावेन तदुपलम्भकसामग्र्यभावादप्यनुपलम्भ उपपद्यते, आत्मनि ज्ञानसत्त्वे तु संयुक्तसमवायस्यावश्यम्भावात्तदुपलम्भकसामग्रथाः सत्त्वेनानुपलम्भायोगादिति तत्सत्त्वविरोधी तदनुपलम्भ इति चोदयति- नन्वन्धकार इति // नित्यानुभवानङ्गीकारे ज्ञानग्राहकसामग्री दुनिरूपेत्यभिप्रेत्य विकल्पयतिकिं मनसेति / व्यवसायानुव्यसाये ऽपि संयुक्तसमवायसत्त्वात्तद्विपयज्ञानान्तरं स्यात् ,