________________ 110 सटीकाद्वैतदीपिकायाम् स्वप्रतिविम्बितचैतन्येन वृत्तिरिवाहकारोऽप्यवभास्यते / न चावभासकसाक्ष्यवच्छेदकत्वमात्रेण तज्ज्ञानत्वं इच्छाविवृत्तेरुपासनावृत्तेश्च तदभावात् // अन्तःकरणवृत्त्यभावेऽपिअविद्यावृत्तिनाशात्संस्कारसाधनम् अस्तु वा अविद्यावृत्तिरेव सन्तन्यमानाहङ्कारादिगोचर. संस्कारहेतुः। तस्या अपि सुषुप्तौ संस्कारजनकत्वकल्पनात् / सर्वथाप्यहङ्कारादिगोचरा स्मृतिनित्यसाक्षिण्युपपद्यते / साक्ष्यनुभवस्या बनाशे अनुकूलतः ___ अनुभवविनाश हेत्वनिरूपणं चानुकूलस्तकः / तथा हि-वृत्तिविनाश इव स्फुरणविनाशेऽपि कारणविनाशो न हेतुः स्फुरणस्यानादित्वात् / नन्वविद्याविनाशवत्तद्विनाशोऽस्त्विति चेन्न / तद्वदत्रान्वयव्यतिरेकसिद्धस्य शास्त्रसिद्धस्य वा तद्विनाशहेतोरदर्शनात् // भावान्न तन्निवृत्तिलक्षणप्रकाशः सम्भवतीत्याह-न चाहङ्कारेति / वृत्तिकृतप्रकाशा भावे कथमहमर्थस्फुरणमित्यत आह-किं तु स्वप्रतिबिम्बितेति / अहमाकारावृत्तिर्ज्ञानं, अर्थावभासकचैतन्यावच्छेदकत्वात् , घटवृत्तिवदित्यनुमानमिच्छादौ व्यभिचारेण दूषयति--न चावभासकेति / उपासनावृत्तेश्चेति / वाचं धेनुमुपासीतेति विहिताया उपासनाया मानस क्रियारूपायाः स्वावच्छिन्नचैतन्यप्रतिभास्याया ज्ञानत्वाभावादित्यर्थः // ___ अहमाकारान्तःकरणवृत्त्यभावेऽपि तादृशाविद्यावृत्तिनाशादेव तत्संस्कार इति मतान्तरमाह--अस्तु वेति / संस्कारस्यान्तःकरणवृत्तिजन्यत्व नियमात्तदभावे कथं स इत्याशङ्कय नायमस्ति नियमः सुखमदमस्वाप्समिति परामर्श हेतुसंस्कारस्य स्वापकालीनान्तःकरणवृत्त्यभावेन तदानीन्तनाविमावत्तिजन्यत्वस्यावश्यकत्वादित्यभिप्रेत्याह-तस्या अपीति / पक्षत्रये ऽप्यहमर्थतद्धमसाक्षिनित्यत्पेपि तत्स्मृतिरुपपद्यत इत्युपसंहरतिसर्वथेति // अनुभव नित्यत्वानुमाने बाधकं परिहत्यानुकूलनकमाह--अनुभवेति / किमनुभव विनाशे वृत्तिवत्कारणनाशो हेतुरुताविद्यापहिरोधिसंसर्गः। नाद्य इत्याह-वृत्तिविनाश इति / द्वितीय शङ्कते-नन्विति / अन्वयतिरका