________________ प्रथमः परिच्छेदः 106 चेन्न। मनसस्तदाश्रयस्य तदुपादानतयाऽतत्करणत्वात् / अपरोक्षव्यवहारहेतोस्तस्या लिङ्गाद्यजन्यत्वात् / लिङ्गादिप्रतिसन्धानशून्यस्याप्यहमित्यनुसन्धानदर्शनात् केवलसंस्कारस्य स्मृतिमात्रहेतुत्वात् / अनुसन्धानहेतुवृत्तिकालीनात्मनः पूर्वमननुभूतत्वात् / अहमर्थगोचरप्रत्यभिज्ञायाश्च तत्तांशे संस्कारजन्यतया ज्ञानत्वात्। अंशभेदावच्छेदेन ज्ञाने परोक्षत्वापरोक्षत्ववत्प्रमात्वाप्रमात्ववच्च ज्ञानत्वाज्ञानत्वयोरप्यविरोधात् // कथं तर्हि ततो ऽहमर्थप्रकाश इति चेन्न / वृत्तिकृतप्रकाशो ह्यविद्यानिवृत्तिरूपचैतन्याभिव्यक्तिरपरोक्षे। न चाहङ्कारावच्छिन्नचैतन्यावारकमज्ञानमस्ति तस्यानावृतसाक्षिण्यध्यासात् / किन्तु मित्याह--अन्तःकरणस्येति / अहमर्थस्याकर्मत्वे ऽन्यस्यापि कर्मणोऽभावादहमाकारवृत्तेनित्वमेव न स्यादकर्मकज्ञानायोगादित्याशङ्कयष्टापत्तिरित्याह-वस्तुतस्त्विति / किश्च ज्ञानत्वे प्रत्यक्षाद्यन्यतमेन भवितव्यम् / न च तदुपपद्यते / प्रमाणषट्काजन्यत्वादित्याह--क्लुप्तेति / तद्यन्यदेव किश्चित्प्रमाणमस्त्वित्यत आहकरणान्तरेति / मनोजन्यत्वात्प्रत्यक्षमेवेति शङ्कते--मनु मन इति / मनसो वृत्तिमात्रं प्रत्युपादानत्वान्न कापि करणत्वमित्याह--न मनस इति / यदवोचाम मनसो ऽकरणत्वादिति तदित एव सिद्धमिति द्रष्टव्यम् / अस्तु तहि लिङ्गादिजन्यत्वमित्याशङ्कय तथात्वे ऽपरोक्षव्यवहारहेतुत्वं न स्यादित्यभिप्रेत्याह--अपरोक्षेति / लिङ्गादिज्ञानाभावेप्यह मिति प्रतीतेन तज्जन्यत्वमित्याह--लिङ्गादीति / तहि संस्कार एव तत्र करणमित्याशङ्कय तथात्वेऽनुभवत्वं न स्यादित्याह--केवलेति / पूर्वानु. भवाभावादहमर्थसंस्कारोऽपि न सम्भवतीत्याह - अनुसन्धानेति / कथं तहि सोऽहमिति प्रत्यभिज्ञाया ज्ञानत्वमिस्याशङ्कय तस्या अपि तत्तांश एव ज्ञानत्वं न त्वहमथोश इत्याह--अहमथंति / एकत्र ज्ञानत्वाज्ञानत्वे विरुद्ध इत्याशय गुरुमते प्रत्यभिज्ञायां परोक्षत्वापरोक्षत्ववद्वशषिका दिमते तभ्रमे प्रमात्वाप्रमात्ववदंश. भेदेन तयोर्न विरोध इत्याह-अंशभेदेति / अहमाकारवृत्तरजापे ततोऽर्थप्रकाशो न स्यादिति चोदयति-कथन्तहीति / खापत्या परिहरति / नेति / न कथमपीत्यर्थः। तदेवोपपादयितुमपरोक्षपानप्रकाशशब्दार्थमाह-वृत्तिकृतेति / प्रकृते तदवच्छिन्नचैतन्यावरकाज्ञाना