________________ 108 सटोकाद्वैतदीपिकायाम् जनकत्वात / तद्गोचरस्मृतिजनकत्वे तद्गोचरसंशयविरोधिज्ञानत्वस्यैव तन्त्रत्वात् / न तु तद्विषयज्ञानत्वं तत्प्रकारकज्ञानत्वं वा तन्त्रम् / संशयादपि स्मृतिप्रसंगात् / केचित्त्वहमाकारा वृत्तिरस्तु तया चाहमर्थगोचरस्मृतिः / न च ज्ञानयोगपद्यानुपपत्तिः। शिरः पादावच्छेदेनापर्यायोत्पन्नसुखदुःखदर्शनेन समवायिप्रदेशभेदेन युगपदवृत्तिवयस्याविरुष्टस्वात् / न चैवं घटज्ञानधाराकालेऽप्यहंशब्दोल्लेविप्रसङ्गः। ज्ञाने शन्दोल्लेखस्यानियतत्वात् / अनुसन्धानस्य तदानीमपि तत्कल्पकस्य सत्वात // न च कर्तृकर्मविरोधः / अन्तःकरणस्य वृत्त्यधीनफलभागित्वा. भावेन वृत्तिं प्रत्यकर्मत्वात् / अहमाकारावृत्तिनं ज्ञानम् वस्तुतस्वहमाकारा वृत्तिन ज्ञानम् / क्लृप्ततत्करणाजन्यत्वात्करणान्तरकल्पने च गौरवात् / ननु मनस्तत्करणमिति हेतुरिति चेत् / किं निश्चयत्वं जातिरुत संशयविरोधिज्ञानस्वरूपत्वम् ? नाद्यः साक्षात्त्वेन साङ्कर्यात / द्वितीये स्मृतिसमानप्रकारकत्वं व्यर्थम् तद्गोचरसंशयविरोविज्ञाने सति तत्प्रकारकत्वाभावेन स्मृत्यभावादर्शनादित्यभिप्रायः / इदानीं घट ज्ञानधाराकाले ऽप्यहमाकारवृत्त्यङ्गीकारे बाधकाभावात्तत एव तत्संस्कारः वृत्तेवृत्त्यन्तरविषयत्वेऽनवस्थापातात्स्वाभिव्यक्तचैतन्ये भासमानत्वमात्रेण स्वजन्यसंस्कार विषयत्वमिति वृद्धानां मतं दर्शयति-कचित्त्वति / समवायि, देशेति / चक्षुराद्यवच्छिन्नाह परदेशे घटाकारवृत्तिः हृदयावच्छिन्ने चाहमाकारवृत्तिरित्यर्थः / ननु घटधाराकाले ऽहंशब्दोल्लंखाभावान्न तदाकारवृत्तिरित्यत आह-न चैवमिति / वृत्तिसाधकस्याहमिति व्यवहारस्य तदानीमभावात्व थं तसिद्धिरित्याशङ्कयाहअनुसन्धानस्येति / अहमाकार वृत्त्यङ्गीकारे ऽहमर्थस्य कर्तृतया तन्निवर्तकत्वाद्गुणत्वं तज्जन्यफलशालित्वेन कर्मत्वात् प्राधान्यं चेति विरुद्धरूपद्वयापत्तिरित्याशङ्कयाह-न चेति / अहमर्थस्यानावृतत्वेन वृत्तिफलाविद्यानिवृत्तिशालित्वाभावान कर्मत्व.