________________ 107 प्रथमः परिच्छेदः संस्कारस्यापि ततो जुद प्रसङ्गात् / वृत्तवृत्यगोचरत्वात् / वृत्त्यन्तरस्याप्यनुव्यवसायनिरासेन निरस्तत्वात / तथा च वृत्तिरूपेण विकसितान्त:करणाभिव्यक्तचैतन्यप्रतिभास्यत्वादहमर्थवृत्तित द्विषयाणां तदुत्पन्नसंस्कारस्यापि तत्त्रित यगोचरत्वं युज्यते / न चान्तःकरणमात्राभिव्यक्तचैतन्यादेवाहमर्थप्रतिभाससम्भवान्न व. त्तिमदन्तःकरणाभिव्यक्तचैतन्यं तत्साधकमिति वाच्यम् / अन्यप्रतिभास्यस्याप्यन्यप्रतिभास्यत्वाविरोधात्पूर्वज्ञानप्रतिभास्यस्याप्युत्तरज्ञानेन विषयीकरणात // . . न च तत्प्रकारकस्मृतौ तत्प्रकारकानुभवः कारणं, घटादि. वृत्तिश्च नाहंत्वप्रकारिकेति ततो नाहमर्थस्मृतिः स्यादिति वाच्यम् / फलबलात् कचिदन्याकारानुभवादन्याकारस्मृतिकल्पने बाधकाभावात् / अननुभूततत्तागोचरस्मृतिवत् गुरुमते ज्ञानगोचरस्मृतिवत, अस्मन्मते वृत्तिगोचरस्मृतिवञ्च वृत्तिमदन्तःकरणावच्छिन्नस्फुरणस्याप्यहमर्थतद्गतवृत्तिसंशयविरोधित्वेन तद्गोचरस्मृति बाधकमाह-अन्यथेति / अस्तु तर्हि वृत्तावपि स्वविषयवृत्त्यन्तरेण संस्कार इत्याशङ्कथानवस्थाप्रसङ्गान्मवमित्याह-वृत्त्यन्तरेति / तथापि कथं घटज्ञानादहमर्थस्य संस्कार इत्यत आह-तथा चेति / चैतन्यप्रतिभास्यत्वादिति / तत्प्रयुक्तसंशयाद्ययोग्यता कत्वादित्यर्थः। अहमथस्य वृत्त्यभिव्यक्तचैतन्यभास्यत्वमेवासिद्धं स्वप्ने तदभावे ऽपि तत्प्रतिभासादित्याशङ्कय त्वग्ग्राह्यस्य चक्षुर्माह्यत्ववदविरोध इत्याह-न चान्तःकरणेति / ___एवमप्यहत्वप्रकारकस्मृत्यनुपपत्तिः, * संस्कारमूलवृत्तावहत्वस्याप्रकारत्वा. दित्याशङ्कामपवदति-न चेति / यद्यपि वृत्तिं प्रत्यप्रकारत्वेऽप्यत्वस्य तदभिव्यक्तसाक्षिणं प्रति प्रकारत्वात्तन्मूला स्मृतिस्तत्तकारिका युक्ता तथापि स्मृत्यनुभवयोः समानप्रकारकत्व नियमो ऽपि नास्तीत्याह-फलबलादिति / तत्तेदन्तयोरखण्डधर्मत्वमतेनाननुभूततत्तत्युक्तम् / किञ्च स्मृतिजनकज्ञाने तत्समानप्रकारकत्वं कुत्रापि नापेक्षितं किं तु तद्विषयसंशयादिविरोधिज्ञानत्वमेवेत्याह-वृत्तिमदिति / एवकारब्यावय॑माह---न तु तद्विषयेति / तत्र हेतुमाह--संशयादिति / ननु निश्चय एव स्वसमानप्रकारकस्मृति